________________
B132
गण्डव्यूहसूत्रम् ।
[४०.०वितानविततान् रत्नकिङ्किणीजालावनद्धान् उच्छ्रितच्छत्रध्वजपताकोपशोभितान् सर्वजनपदप्रदेशेषु स्थापयापास । ग्रामनगरनिगमजनपदप्रदानानि चोद्धोपयामास। नानाविधोद्यानरग्यारामतपोवनपरिभोगानपि सर्वगृहकलत्रपुत्रदारकपरित्यागानपि अनय॑सर्वरत्नपरित्यागानपि
खहृदयमज्जात्रगुणवृक्कमेदमांसरुधिरच्छविचर्मकरचरणबाहुकर्णनासानयनजिह्वादन्तोष्ठशीर्ष5 परित्यागानपि यावत्सर्ववाह्याध्यात्मिकसर्वाकारपरित्यागानप्युद्घोषयामास ॥
स तमेवंरूपमुपकरणपरित्यागविधि प्रत्युपस्थाप्य महायज्ञवाट कारयामास, यस्तस्या रत्नसालव्यूहमेघप्रदीपाया राजधान्याः पूर्वेण मणिशिखरतेजोनाम्नो नगरद्वारस्य पुरतः समविपुलायामः परमविस्तीर्णधरणीतलप्रवेशो निम्नोन्नतविशुद्धसमतलोऽपगतश्वभ्रप्रपातः
सर्वस्थाणुकण्टकापगतः उत्सन्नशर्कराकठल्लः सर्वरत्नधातुसंचयः सर्परत्नमयमणिरत्नराजसंस्तीर्णS 320 10 तलः अनेकमणिरत्नव्यूहोपशोभितो नानारत्नकुसुमाभिकीर्णः सर्वचूर्णसुगन्धराजसमाकुल:
सर्वगन्धधूपपरिधूपितो रत्नार्चिःप्रदीपः तेजःश्रीसर्वगन्धधूपपटलमेघगगनसंछादितालंकारः सर्वरत्नद्रुमपतिसुविभक्तोपशोभितो नानाभवन विमानकूटागारसमलंकृतः उच्छ्रितच्छत्रध्वजपताको नानारत्नपट्टप्रलम्बविद्योतितो विविधरत्नकुसुमजालसंछन्नः सर्वगन्धराजरत्नजालच्छत्रमण्डलः सुवर्णजालरत्नघण्टानिर्घोषो नानारत्नविराजितवितानविततः सर्वगन्धराजचूर्ण15 विकीर्णः सर्वरत्नकुसुमप्रकीर्णाभिरामः तूर्यकोटीनियुतशतसहस्रमनोज्ञरुतघोषनिर्नादितः सर्वरत्नविचित्रालंकारव्यूहसुपरिशुद्धो बोधिसत्त्वकर्मविपाकाभिनिर्वृत्तः । तस्य मध्ये महासिंहासनमभिनिर्वृत्तं दशरत्ननिचितविचित्रभूमितलसंस्थानं दशरत्ननानावेदिकापरिवारविराजितं दशमणिद्रुमशाखावेदिकान्तरसुविभक्तोपशोभितव्यूहम् अभेद्यवज्रचक्रधरणीतलसुप्रतिष्ठितपादं सर्वरत्नबिम्बविग्रहसंधारितासनचक्रम् , अनेकरत्नमयनिहशतालंकृतं नानारत्नभक्तिविचित्र20 व्यूहप्रतिमण्डितं समन्तसुविभक्तरनध्वजसमुच्छ्रितं नानारत्नपताकाप्रलम्बितविचित्रव्यूह रत्नकिङ्किणीजालपरिष्कृतं नानादिव्यमणिविचित्रहेमजालविततं विविधरत्नकुसुमजालमहामणिराजजालबिचित्रवस्त्ररत्नजालयथार्हसंछादितोपशोभितव्यूहम् अनेकगन्धमणिविग्रहपाणिमण्डलगन्धमेघप्रमुक्तमचिन्त्यवर्णगन्धमणिराजविस्तृतमनोज्ञनानासंस्थानसर्वगन्धपटलमेघप्रमुक्तं सर्वदिव्यगन्धधूपप्रधूपितोपचारं दिव्यातिरेकसुखसंस्पर्शानेकवर्णमणिरत्नवस्त्रप्रज्ञप्तमनेकदिव्यतूर्य25 संगीतिशतसहस्रं समन्तात् संप्रवादितमनोज्ञमधुरनिर्घोषं नानारत्नसोपानपतिपताकासुविभक्त
वेदिकाप्रतिमण्डितव्यूहमनेकमणिरत्नप्रत्यर्पितविविधविकुर्वितमणिबिम्वविग्रहविद्योतितप्रभासम् यत्र स राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः संनिषण्णोऽभूत् अभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतो विशुद्धमहापुरुषलक्षणप्रतिलब्धो वैरोचनमणि
रत्ननिर्भासकेशमकुटः अभेद्यनारायणवज्रसंहननकायो गूढदृढपार्शनिबद्धसंधिः सर्वाङ्गपरिपूर्णः 55 330 30 समन्तभद्रः समन्तप्रासादिकः समन्तशोभनः सर्वाकारवरोपेतो महाधर्मराजकरोदितः सर्वपरि
ष्कारवशिताप्रतिलब्धो धर्मवशितासुविशुद्धः खचित्तवशवर्ती अप्रतिहतवचनमण्डल: अकोप्य
१ Bom. महायज्ञवाट कारयामास.