________________
-४०.०] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा।
२५१ त्राणभूता भविष्यामोऽनवद्यकर्मान्तप्रतिष्ठापनतया । अहो वत अशरणाः सत्त्वा लोके जरामरणभयाविष्टाः । कदा तद्भविष्यति यद्यमशरणानां सत्त्वानां शरणभूता भविष्यामः सर्वसंसारभयविनिवर्तनतया । अहो बत अपरायणाः सत्त्वा विविधलोकभयोपद्रुताः । कदा तद्भविष्यति यद्वयं विविधलोकभयोपद्रुतानामपरायणानां सत्त्वानां परायणं भविष्यामोऽत्यन्तयोगक्षेमे सर्वज्ञतामार्गे प्रतिष्ठापनतया । अहो वत अविद्यान्धकारप्राप्तः सर्वलोको । विमतिसंशयतिमिरावृतः । कदा तद्भविष्यति यद्वयमुल्काभूता भविष्यामः सर्वसत्त्वानागविद्यान्धकारविधमनतया । अहो वत आलोकविरहिताः सत्त्वाः । कदा तद्भविष्यति यद्वयं महाज्ञानालोककरा भविष्यामः सर्वसत्त्वानां वितिमिरज्ञानमुखसंदर्शनतया। अहो वत ज्ञानज्योतिर्विरहितः सर्वसत्त्वधातुरीामात्सर्यमायाशाठ्यकालुषाशयः । कदा तद्भविष्यति यद्वयममुत्तरज्ञानप्रद्योतकरा भविष्यामः सर्वसत्त्वानामत्यन्तपरिशुद्धिप्रतिष्ठापनतया । अहो 10 बत नायकविरहितः सर्वलोको महासंसारसागरविषमस्रोतःप्रपन्नः । कदा तद्भविष्यति यद्वयं नायकभूता भविष्यामः सर्वसत्त्वानां कर्मसमुद्रनयावतरणतया । अहो बत विनायकविरहितः सर्वलोको दुर्विनीतः । कदा तद्भविष्यति यद्वयं विनायकभूता भविष्यामः सर्वसत्त्वानां सर्वाकारपरिपाकविनयतथागताधिष्ठानकालानतिक्रमणेन । अहो वत अपरिणायकः सर्वलोको जात्यन्धभूतः । कदा तद्भविष्यति यद्वयं परिणायकभूता भविष्याग: 15 सर्वसत्त्वानामनावरणसर्वज्ञज्ञाननयावतरणतया ।।
स इमानि दश महाकरुणोपसंहितानि वचनपदान्युदीर्य तस्यां राजधान्यां घण्टावघोपणमकाीत् । महात्यागदुन्दुभिनि|पं च अकारयत्-सर्वजगत् संतर्पयिष्यामः, यस्य येनार्थस्तस्मै तदनुप्रदास्याम इति । तेन सर्वजम्बुद्वीपे सर्वराजधानीषु सर्वग्रामनगरनिगमजनपदपत्तनेषु सर्वोपकरणकोशा विवृताः । सर्वशृङ्गाटकरथ्याचत्वरेषु विविधोपकरणविधयः 20 5 328 स्थापिताः । सर्वजगदुपजीव्याः सुप्रतिविहिताः । सर्वकोशकोष्ठागाराणि विवृतानि । महारत्ननिधाननिचया निदर्शिताः । अनेकनानाविधरत्नराशयः स्थापिताः। अन्नपानवस्त्रयानपुष्पमाल्यगन्धविलेपनचूर्णनानागन्धवर्णचीवररतकोशा विवृताः । शयनासनवसनभवनविमानगृहाण्यलंकृतानि सर्वधनकनकसमृद्धानि ज्योतिर्ध्वजमणिराजविन्यासविधूतान्धकाराणि । स तेषां सत्त्वानां यथाभिलषितसर्वाभिप्रायपरिपूरणार्थं तेषु गृहेषु प्रत्येकमात्मभाव- 25 सदृशमुपादाय कायमभिनिर्माय स्थापयामास । सर्वसत्त्वसर्वव्याधिप्रशमनाय च वैद्यभैषज्योपस्थायकविविधजीवितोपकरणप्रत्ययसंपदमुपस्थापयामास । यथार्ह विविधोपकरणपूर्णानि च नानारत्नविचित्रभाजनान्युपस्थापयामास-यदुत वज्रमणिभाजनानि नानागन्धमणिरत्नपरिपूर्णानि, नानागन्धरत्नभाजनानि विविधोदारविचित्रवर्णरङ्गवस्त्रपरिपूर्णानि, या युग्यानि सुबहूनि नानाकारसंस्थानानि विचित्ररत्नप्रतिमण्डितानि आजानेयाश्वगजगोयुक्तानि । विवि- 30 धांश्च रथान् राजार्हान् सर्वरत्नाभरणपरिभोगांश्च सर्वासनविधींश्च नानारतविचित्रान् विविध
१ यानयुग्मानि.