________________
8326
२५० गण्डन्यूहसूत्रम् ।
[४०.०तेन च समयेन लोकधातावन्तरकल्पक्षये प्रत्युपस्थिते पञ्चसु कपायेषु लोके प्रादुभूतेषु दशसु कुशलेषु कर्मपथेप्वन्तर्हितेषु दशाकुशलकर्गपथवर्तिनः सत्त्वा यद्भूयसा दुर्गतिगामिनोऽभूवन् । ते दशाकुशलकर्मपथसमादानहेतोः परीत्तायुपोऽभूवन् अल्पभोगा विरूपा विवर्णा दुःसंस्थितशरीरा अल्पसुखसमुदाचारा दुःखवेदनासमुदाचारबहुला अन्योन्यविसं5 वादवचनशीला अन्योन्यभेदप्रतिपन्नाः परुषवचनसमुदाचाराः प्रकीर्णवचसो विषयलोभाभि
भूताः प्रदुष्टमनःसंकल्पा विविधदृष्टिगहनकान्तारप्रविष्टाः । तेषामधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिगतानां न देवः काले वारिधारा उदसृजत् येन पृथिव्यां बीजग्रामाः सस्यग्रामा विरोहेयुः ॥
तेन खलु पुनः सत्त्वाः शुष्केषु तृणगुल्मौषधिवनोद्यानगुमेषु नानाव्याधिस्पृष्टा 10 दिग्विदिशो विधावन्ति स्म अपरायणाः । ते समागम्य सर्व एव येन रत्नसालव्यूहमेघप्रदीप
राजधानी तेनोपसंक्रम्य तो समन्तादनुपरिवार्य केचिदूर्ध्वबाहवः, केचित्कृताञ्जलिपुटाः, केचित् संकम्पितशरीराः, केचिदभ्युद्गताङ्गाः, केचिदधोमुखं प्रपतिताः, केचित्सर्वशरीरेण प्रणिपतिताः, केचिद्धरणितलजानुप्रतिष्ठिताः, केचिद्गगनतलाभिनतबाहवः, केचिन्नग्ना निर्व
सनाः, केचिद्विकृतवदननयनाः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञोऽभिमुखं महान्त15 मार्तस्वरमुत्क्रोशमकार्षुः-उपद्रुताः स्म । देवापसृष्टाः स्म । क्षुत्पिपासादुःखप्रपीडिताः स्म । विविधभयोपतप्ताः स्म । त्राणविरहिताः स्म । देव अशरणा अपरायणाः स्म । दुःखपञ्जरगताः स्म जीवितोपरोधप्राप्ता मरणाभिमुखाः। इति नानाविधान् प्रलापान् प्रलपन्तो नामाखराङ्गै नावचनैर्नानाविकृतवक्त्रनयना विविधसंज्ञावचनव्याहारनिमन्त्रपदैर्नानार्थसूचकवचनपदैरुत्क्रोशमकार्षुः । ये च तस्यां राजधान्यां स्त्रीपुरुषदारकदारिकाः क्षुत्पिपासाप्रपीडिता 20 निराभरणगात्रा नग्ननिर्वसना दुष्टविवर्णा रूक्षपरुषगात्रा दुःखिता दुर्मनसोऽनात्तमनस्काः,
ते चापि सत्त्वा दुःखानभिलाषिणो दुःखभयनिर्विण्णाः । ते सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं राजानं महाज्ञानपुरुषं प्रतिशरणभूतं शरणभुपागताः सर्वसुखप्रतिलम्भसंज्ञया सर्वप्रियसमवधानप्रतिलम्भसंज्ञया जीविताशापरिगतनिधानप्रतिलम्भसंज्ञया तीर्थसंदर्शनसंज्ञया महापथप्रतिपत्तिसंज्ञया महायानपात्रसंज्ञया महाज्ञानरत्नद्वीपसंज्ञया महार्थप्रतिलम्भसंज्ञया 25 स्वर्गसर्वरतिसुखप्रतिलम्भसंज्ञया ॥
___अश्रौषीदाजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः तस्य महतः समन्ताधाचनकसमूहस्य तं महान्तमार्तस्वरमुत्कोशनशब्दम् । श्रुत्वा च अस्य दश महाकरुणामुखासंख्येयशतसहस्राण्यवक्रामन् । स महाकरुणानयचेतनानिध्यप्तिचित्तो मुहूर्तमेकाग्रतामनुभूय दश महाकरुणोपसंहितानि वचनपदान्युदीरयामास । कतमानि दश ? अहो बत अनालम्बनाः सत्त्वा 30 महासंसारप्रपातप्रपतिताः । कदा तद्भविष्यति यद्वयं संसारमहाप्रपातप्रपतितानां सत्त्वामा लयनभूता भविष्यामः तथागतलयनभूमिप्रतिष्ठापनतया । अहो बत अत्राणाः सत्त्वा नानाक्केशोपद्रवोपद्भुताः । कदा तद्भविष्यति यद्वयं विविधक्केशभयोपद्रुतानां सत्त्वानामत्राणानां
B131
8327