________________
-४०..] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा ।
२४९ त्वदाशयस्य प्रविशोधनाय
मुनेरधिष्ठानबलादचिन्त्यान् । वैरोचनीयो विषयोऽप्रमेयः
प्रवर्तते मद्वचनादसङ्गः ॥ २१ ॥ भूतपूर्व कुलपुत्र अतीतेऽध्वनि लोकधातुसमुद्रपरमाणुरजःसमानां कल्पानां परेण 5 B 130 परतरं मणिकनकपर्वतशिखरवैरोचनो नाम लोकधातुसमुद्रोऽभूत् । तस्मिन् खलु पुनः कुलपुत्र मणिकनकपर्वतशिखरवैरोचनलोकधातुसमुद्रे ज्ञानपर्वतधर्मधातुदिक्प्रतपनतेजोराजो नाम तथागतोऽभूत् । तेन खलु पुनः कुलपुत्र ज्ञानपर्वतधर्मधातुदिक्प्रतपनतेजोराजोनाम्ना तथागतेन पूर्व बोधिसत्त्वचर्यां चरता स मणिकनकपर्वतशिखरवैरोचनो लोकधातुसमुद्रः परिशोधितः । तस्मिन् लोकधातुसमुद्रे पृथिवीपर्वतपरमाणुरजःसमलोकधातुप्रसरनिर्देशः । 10 एकैकस्मिंश्च लोकधातुप्रसरे लोकधातुवंशपरमाणुरजःसमा लोकधातुनिर्देशाः । एकैकस्मिंश्च लोकवंशे लोकधातुपरमाणुरजःसमाः कल्पसंख्यानिर्देशाः । एकैकस्मिंश्च कल्पेऽनेकेऽनन्तरकल्पनिर्देशाः । एकैकस्मिंश्चानन्तरकल्पेऽनेकलोकधातुनानाकरणनिर्देशाः । तथागतोत्पादा विविधविकुर्वितनिर्देशाः । एकैकस्मिंश्च तथागतोत्पादे लोकधातुपरमाणुरजःससाः सूत्रान्तसंप्रकाशनिर्देशाः। एकैकस्मिंश्च सूत्रान्ते लोकधातुपरमाणुरजःसमा बोधिसत्त्वव्याकरणनिर्देशाः 15 अनन्तमध्यसत्त्वविनयनिर्देशा नानायाननयैः प्रवर्तिता नानाविकुर्वितप्रातिहार्यविनयताः ॥
तस्मिन् खलु पुनर्मणिकनकपर्वतशिखरवैरोचने लोकधातुसमुद्रे समन्तदिगभिमुखद्वारध्वजव्यूहोनाम मध्यमो लोकधातुवंशोऽभूत् । तस्मिन् खलु पुनः कुलपुत्र समन्तदिगमिमुखद्वारध्वजव्यूहे मध्यमे लोकधातुवंशे सर्वरत्नवर्णसमन्तप्रभासश्री म लोकधातुरभूत् । सर्वतथागतबोधिमण्डप्रतिभासमणिराजो लोकधातुसंधिव्यूहः सर्वरत्नकुसुमसागरप्रतिष्ठितः 20 सर्वतथागतनिर्माणनिर्भासनिदर्शनमणिराजशरीरो देवनगरसंस्थानो विशुद्धसंक्लिष्टः । तस्मिन् पुनर्लोकधातौ सुमेरुपरमाणुरजःसमाश्चातुर्दीपका लोकधातवोऽभूवन् । तेषां च सुमेरुपरमाणुरजःसमानां चातुर्दीपकानां सर्वरत्नशिखरध्वजो नाम मध्यमश्चातुर्दीपकोऽभूत् । तस्मिन् खलु पुनः सर्वरत्नशिखरध्वजे चातुपके लोकधातौ अप्रमेययोजनशतसहस्रायामविस्ताराश्चत्वारो द्वीपा अभूवन् । एकैकस्मिंश्च द्वीपके दश महानगरसहस्राण्यभूवन् । 25 तस्मिंश्च खलु पुनः चातुर्तीपके जम्बुद्वीपस्य मध्ये रत्नसालव्यूहमेघप्रदीपा नाम राजधान्यभूद्दशनगरसहस्रपरिवारा । तस्मिन् खलु पुनर्जम्बुद्वीपे दश वर्षसहस्राणि मनुष्याणामायुप्रमाणमभूत् । तस्यां खलु पुना रत्नसालव्यूहमेघप्रदीपायां राजधान्यां सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम राजाभूच्चक्रवर्ती । राज्ञः खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य पञ्चामाल्यशतान्यभूवन् । षष्टिः स्त्रीसहस्राण्यन्तःपुरमभूत् । सप्त पुत्रशतान्यभूवन् सर्वेषां 50 शूराणां वीराणां वराङ्गरूपिणां सुदर्शनानां महातेजसां महाबलानाम् । तस्य खल्लु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः सर्वोजम्बुद्वीप एकच्छंत्रोऽभून्निहतपरचक्रप्रत्यर्थिकः॥
गण्ड. ३१
8325