SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 10 8340 -४०.७६] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा । २६३ र्नानाविकुर्वितवृषभिताभिर्विविधमार्गव्यूहैः समुदागता नानाविमोक्षविहारैरिह पर्षन्मण्डले नानाधर्मविमानविहारानावसन्तो विहरन्ति ॥ अथ खल्लु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिसंभवनिधानसंतुष्ट्यवभासं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत चक्षुर्ममा जिनसुता विपुलं येनो विलोकयमि सर्वदिशः। क्षेत्रोदधीन् बहुविधान् विपुलान् सत्त्वाणेवानपि च संसरतः ॥ ७१॥ सर्वेषु क्षेत्रप्रसरेषु जिनान् बोधिद्रुमासनगतान् विरजान् । व्याप्यर्द्धिभिर्दश दिशः सततं धर्मोक्तिभिर्विनयतो जनताम् ।। ७२॥ श्रोत्रार्णवः सुपरिशुद्ध ममा येन शृणोम्यपरिशेषरुतम् । धर्मानशेषसुगताभिहितान् __ सर्वान् शृणोमि भृशमात्तमनाः ॥ ७३ ॥ ज्ञानं ममाद्वयमसङ्गगतं परसत्त्वचित्तविषयप्रसृतम् । चित्तोदधिः सुविपुला जगत श्चित्तक्षणादवतराम्यखिलाम् ।। ७४ ॥ पूर्वान्त मे स्मृतिसमाधिवलात् कल्पोदधीनहमवैष्यमि तान् । जात्यन्तरार्णवशतानि वहू न्यहमात्मनश्च जगतामपि च ॥ ७५ ।। क्षेत्रार्णवैकपरमाणुसमान् कल्पान् क्षणेन च विदाम्यखिलान् । सत्त्वान् गतिष्वपि च संसरतो बुद्धान् विकुर्वितगणैश्च सह ॥ ७६ ॥ तच्च स्मरामि खलु लोकविदां तेषां यथा प्रथमकः प्रणिधिः ।
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy