________________
२६४
गण्डव्यूहसूत्रम् ।
[४०.७७प्रस्थानसंभवनयैर्विपुलैः
समुदागताश्चरिमुपेत्य च याः ॥ ७७ ॥ अभिषेकभूमिगमनानि च या
न्यसमाधितोत्तमगुणौघवताम् । बोधैश्च बुध्यननयान् विपुलां
श्चित्तक्षणादवतराम्यखिलान् ॥ ७८ ॥ यैर्यैरुपायविषयैः सुगताः
प्रावर्तयन् जगति चक्रवरम् । या निवृतीरपरिमाणगुणा
धर्मस्थितेरपि च यो नियमः ॥ ७९ ॥ ये यानसागरनया विमला
ये चैव सत्त्वविनया विपुलाः। संदर्शिता जगति तानमितै
र्नानानयैरवतरामि पृथक् ॥ ८०॥ प्रीतेर्निधानप्रभुतुष्टिधना
ध्यालोक एष हि विमोक्षनयः। मम भावितो विपुल कल्पशता
न्येतं त्वमप्यवतराशु नयम् ॥ ८१ ॥ एतमहं कुलपुत्र विपुलप्रीतिसंभवनिधानसंतुष्टयवभासं बोधिसत्त्वविमोक्षं जानामि । 20 किं मया शक्यं सर्वतथागतपादमूलेषु सर्वज्ञताप्रस्थानप्रणिधिसमुद्रावतीर्णानां सर्वतथागतपूर्व
प्रणिधानसागराभिनिहरिप्रणिधिपरिपूर्णानामेकबोधिसत्त्वभूम्याक्रमणसर्वबोधिसत्त्वभूमिसागराक्रमणविक्रान्तज्ञानानां सर्वबोधिसत्त्वचर्यासमुद्रैकैकचर्यासमवसरणप्रणिधानचर्यापरिशुद्धानामेकैकस्मिन् बोधिसत्त्वविमोक्षे सर्वबोधिसत्त्वविमोक्षसागरसमवसरणविहारवशवर्तिनां बोधिसत्त्वानां चयाँ ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा नाम रात्रिदेवता भगवतः सकाशमुपसंक्रान्ता । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ सत्त्वाः परिपाचयितव्याः, कथं सर्वबुद्धक्षेत्राणि परिशोधितव्यानि, कथं सर्वतथागता आराधयितव्या अत्यन्ताराधनतया, कथं बोधिसत्त्वेन सर्वबुद्धधर्मेषु प्रयोक्तव्याः॥
___ अथ खल सुधनः श्रेष्ठिदारकः सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवतायाः पादौ 30 शिरसाभिवन्ध सर्ववृक्षप्रफुल्लनसुखसंवासां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य
पुनः पुनरवलोक्य सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवताया अन्तिकाव्सक्रान्तः ॥ ३८ ॥
SAH