________________
B 137
342
४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा । अथ खल सुधनः श्रेष्ठिदारको येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तेनोपसंक्रान्तः । सोऽद्राक्षीत्सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवतां तस्मिन्नेव पर्पन्मण्डले सर्वजगद्भवनप्रतिभासमणिराजगर्भासननिपण्णां धर्मधातुनयप्रतिभासमणिजालसंडादितशरीरा सर्वचन्द्रसूर्यज्योतिर्ग्रहतारानक्षत्रप्रतिभाससंदर्शनकायां यथाशयसत्त्वचक्षुर्विज्ञप्तिसंदर्शनकायां । सर्वसत्त्वकायसंस्थानसदृशखशरीरविज्ञपनकायाम् अनन्तमध्यवर्णसमुद्रोदारविज्ञप्तिसंदर्शनकायां सर्वेर्यापथविहारनयसंदर्शनकायां समन्तमुखाभिमुखविज्ञपनकायां सर्वदिगभिमुखसत्त्वपरिपाचनाभिमुखकायां समन्तधर्ममेघनिगर्जितविविधविकुर्वितसर्वदिक्स्फरणसर्वजगदभिमुखकायां सर्वकाळजगदाभिमुखगगनप्रलम्बकायां सर्वतथागतक्रमतलप्रणिपतितकायां सर्वसत्त्वकुशलमूलोपचयसुखपूर्वगमकायां सर्वतथागताभिमुखधर्ममेघसंप्रतीच्छनसंधारणप्रणिधि- 10 सिद्धिपरिपूर्णचेतोपराङ्मुखस्मृतिसंधारणकायाम् अनन्तमध्यावभाससर्वदिक्स्फरणशरीरां सर्वजगत्तमोविकिरणधर्मप्रदीपालोकसमन्तामुक्तावभाससंदर्शनकायां मायागतधर्मनिर्मलज्ञानशरीरनिदर्शनकायां विगततमोरजोधर्मशरीरनिदर्शनकायां मायागतधर्मतानिर्जातकायां धर्मताप्रतिविबुद्धान्धकारचित्तां सममुखज्ञानालोकावभासप्रतिलब्धाम् अत्यन्तनि रनिःसंताप- मनःशरीरां धर्मकायाभेद्यसारवतीधातुनिर्याताम् अप्रतिष्ठिततथागताधिष्टानप्रकृत्यसंक्लिष्ट- 15 खभावनिर्मलधर्मताशरीरविशुद्धकायाम् । स तां दृष्ट्वा मूर्धा प्रणम्य वुद्धक्षेत्रपरमाणुरजःसमान् दर्शननयाननुस्मरमाणोऽन्तरधरणितले प्रणिपत्य सुचिरमतिनामयामास ॥
____ अथ खलु सुधनः श्रेष्ठिदारकः तस्माद्धरणितलादुत्थाय प्राञ्जलीभूतः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः कायं निरीक्षमाणो दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वकल्याणमित्रसभागतां प्रत्यलभत । कतमा दश ? यदुत-कल्याण- 20 मित्रेषु खचित्तसंज्ञां प्रत्यलभत सर्वज्ञतासमारम्भवीर्यसलिम्वनसंवासाय । खकर्मविपाकविशुद्धिखभावसंज्ञां प्रत्यलभत कल्याणमित्रारागणविपुलकुशलमूलसमुदागमारागणतायै । बोधिसत्त्वचर्यालंकारसंज्ञां प्रत्यलमत सर्वप्रणिधानालंकारचर्यासंवसनतायै । सर्वबुद्धधर्माभिनिष्पादनसंज्ञां प्रत्यलमत सर्वकल्याणमित्रानुशासनीपथप्रतिपत्तये । स्पर्शोपपत्तिसंज्ञां प्रत्यलभत सर्वबुद्धविषयानुत्तरधर्मविहारावभाससंदर्शनतायै । एकनिर्याणसंज्ञां प्रत्सलभत 25 समन्तभद्रयाननिर्याणप्रणिधानचर्याविशुद्धये । सर्वज्ञपुण्यसागराकरसंज्ञां प्रत्यलभत सर्वशुक्लधर्मसमार्जनविवर्धनतायै । सुपरिपूर्णकुशलधर्मपरिपूरणसंवर्धनपरिपालनसंज्ञां प्रत्यलभत बुद्धबोधै सर्वज्ञज्ञानवीर्यवेगसंवर्धनतायै । सर्वकुशलमूलपरिपूरिसंज्ञां प्रत्यलभत सर्वसत्त्वसर्वाभिप्रायपरिपूरणतायै । सर्वार्थसंसाधकसंज्ञां प्रत्यलभत कल्याणमित्रेषु सर्वबोधिसत्त्वकर्मवशवर्तिताप्रतिष्ठापनाय । इमा दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वजगद्रक्षा- 30 प्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमा बोधिसत्त्वसभागताः प्रत्यलभत ।
Som. 'तारा'. २ मुख. ३ B अनन्त'.
गण्ड, ३४