________________
S 343
S 344
B 138
२६६
गण्डव्यूहसूत्रम् ।
[ ४१.०यदुत स्मृतिसभागतां दशदिक्सर्वतथागतत्र्यध्वानुस्मृतिनयेषु, मतिसभागतां सर्वधर्मसागरनयासंभेदविनिश्चितेषु, गतिसभागतां सर्वतथागतधर्मचक्रमण्डलगत्यनुगतासंभेदविभागनयकौशल्येषु, बोधिसभागतामाकाशसमबुद्ध्या सर्वत्र्यध्वनय सागरावभासप्रतिलाभाय, इन्द्रियविशुद्धिसभागतां सर्वबोधिसत्त्वेन्द्रियसागरज्ञानावभासप्रतिलाभाय, चित्तविशुद्धिसभागतां 5 सर्वाकार सत्त्व संग्रहव्यूह वोधिसत्त्वमार्गगुणप्रतिपत्यलंकारमार्गप्रतिपत्तये, गोचरसभागतां तथागतज्ञानगोचरावभासप्रतिलाभाय, नयानुगमसभागतां सर्वाकारसर्वज्ञतानयसमुद्रावतारपथावभासप्रतिलाभाय, अर्थप्रतिवेधसभागतां सर्वधर्मस्वभावज्ञान प्रतिवेध प्रतिलाभाय, धर्मविहारसभागतां सर्वावरणपर्वतविकिरणतायै, रूपकायविशुद्धिसभागतां यथाशयजगद्विमात्रतासंदर्शनलक्षणानुव्यञ्जनविचित्रशरीरविशुद्धिप्रतिलाभाय, बलसभागतां बोधिसत्त्वबलपरि10 निष्पत्तिसर्वज्ञतारम्बणविवर्धनतायै, सर्वधर्मनयसमुद्रेषु वैशारद्य सभागतां चित्ताशयगगनपरिशुद्धये, वीर्य सभागतां सर्वकल्प बोधिसत्त्वत्चर्यासंवासापरिखेदप्रतिलाभाय, प्रतिभान सभागतां सर्वधर्मानावरणज्ञानालोकप्रतिलाभाय, अनभिभूतसभागतां सर्वजगदभ्युद्गतात्मभावपरिशुद्धये, अदीनालीनवचनसभागतां सर्वपर्षन्मण्डलाभिराधनपरिशुद्धये, घोपसभागतां सर्वधर्मनयसमुद्ररुतगर्जनतायै, खराङ्गविशुद्धिसभागतां सर्वजगद्वचनविज्ञप्तिव्यवहारनय समुद्रेषु, गुणविशुद्धि15 सभागतां तथागतानुशासनीगुणप्रतिपत्तिविशुद्धिषु, बुद्धधर्मकर्मवंशाविरोधनसभागतामनवद्यकर्मविपाकविशुद्धये, धर्मयज्ञभूमिप्रतिष्ठापनसभागतां सर्वबुद्धोत्पादधर्मचक्रप्रवर्तनतायै, ब्रह्मचर्यविशुद्धिसभागतां सर्वतथागतविषयज्ञान संवसनतायै, महामैत्रीसभागतां नानामैत्रीनयप्रतिक्षणसर्वसत्त्वसागरस्फरणतायै, महाकरुणानयसमुद्रावतारसभागतां सर्वसत्त्वधातुपरित्राणधर्ममेधाभिप्रवर्षणतायै, कायकर्मसभागतां सर्वसत्त्वपरिपाचनोपायोपचारसभागतायै, 20 वाक्कर्मविशुद्धिसभागतां सर्वधर्मव्यवहाराभिलापेषु, मनस्कर्मसभागतां सर्वसत्त्ववित्तेषु सर्वज्ञतारम्बणोपसंहरणतायै, विविध सर्वव्यूहप्रतिमण्डनसभागतां सर्वबुद्धक्षेत्रेषु सर्वतथागतोपसंक्रमणतायै, उपसंक्रमणसभागतां सर्वबुद्धोत्पादसमुद्रेषु, धर्मचक्राध्येषणसभागतां सर्वतथागतेषु, पूजोपस्थानसभागतां सर्वतथागताशेषकालसर्वपूजोपस्थानतायै, सर्वसत्त्वपरिपाकविनयसभागतां सर्वसत्त्वधातौ आलोकप्रतिलाभसभागतां सर्वसत्त्वधर्मनयेषु, 25 समाधिप्रतिलाभसभागतां सर्वसमाधिनयसमुद्रेषु समन्तस्फरणसभागतां सर्वबुद्धक्षेत्रसमुद्रबोधिसत्त्वचर्याविकुर्वितस्फरणतायै, बोधिसत्त्वविहारसभागतां सर्वबोधिसत्त्वविकुर्वितनयसमुद्रेषु, परिवारसभागतां सर्वबोधिसत्त्वचर्यासंवासेषु, प्रवेशसभागतां सर्वलोकधातुसुसूक्ष्मप्रवेशेषु, चित्तविभक्तिसभागतां सर्वबुद्धक्षेत्रवैपुल्येषु, अनुगमवैमात्रतासभागतां सर्वबुद्धक्षेत्रसमुद्रावतारविमात्रतानुगमेषु, समन्तनयप्रसरस्फरणसभागतां सर्वबुद्धक्षेत्रविभक्त्य30 नन्तज्ञानविज्ञप्तिषु, अभ्युद्गतसभागतां सर्वबुद्धक्षेत्रेषु, अवैवर्त्य भागतां सर्वदिक्स्फरणसमवसरणाधिष्ठानाविवर्त्यतायै, अन्धकारविधमनसभागतां सर्वबुद्धबोधिमण्डविबुध्यनज्ञानमण्डला
१ Bom. चित्ता...सभागतां.