SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ -४१.०] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा । बभासप्रतिलाभाय, अनुप्राप्तिसभागतां सर्वबुद्धपर्यन्मण्डसमुद्रे, सर्वयुद्धक्षेत्रकायजालस्फरणसभागतामनभिलाप्यबुद्धक्षेत्रतथागतपूजोपस्थानप्रयोगेपु, ज्ञानप्रत्यक्षसभागतां तत्र धर्मनयसमुद्रानुप्रवन्धेषु, प्रतिपत्तिसभागतामनुलोमसर्वधर्मनयन संमुखप्रयोगेषु, एषणसभागतां तीव्रधर्मच्छन्दारम्भविशुद्धये, विशुद्धिसभागतां कायवाङ्मनस्कर्मवुद्धगुणालंकारसमादानेषु, सुमनःसभागतामविषमकल्पचित्तमण्डलसर्वधर्मज्ञानमण्डलपरिशुद्धये, वीर्यारम्भ- ० सभागतां सर्वकुशलमूलसंभारसमारम्भनिस्तीरणप्रयोगेपु, चर्याव्यूहसभागतां सर्ववोधिसत्त्ववर्यापरिनिष्पत्तिषु, असङ्गविहारसभागतां सर्वधर्मनिमित्तप्रतिवेधेषु, उपायकौशल्यनयस भागतां तत्र तत्र धर्मविहारज्ञानविकुर्वणतासु, आयतनविशुद्धिसभागतां यथाशयसत्त्वाविषमदर्शनसमादानेषु, वोधिसत्त्वसमाधिमुखप्रतिलाभसभागतां सर्वधर्मविभावनाप्रतिलाभेषु, अधिष्टानसभागतां सर्वतथागतवेशेषु, भूम्याक्रमणसभागतां सर्ववुद्धवोधिसत्त्व भूमिप्रतिलाभेषु, प्रतिष्ठान - 10 सभागतां सर्ववोधिसत्त्वव्यवस्थानेपु, आदेशनसभागतां सर्वबुद्धव्याकरणेषु, समाधिसभागतां एकक्षणे सर्वसमाधिसागरनयेषु, समाविव्यवस्थानसभागतां नानालक्षणबुद्धकार्येषु, अनुस्मृति - सभागतां सर्वानुस्मृत्यारम्वणनयसमुद्रेषु बोधिसत्त्वचरणसभागतां वोधिसत्त्वकार्यापरान्तकोटीगतकल्पव्यवसायेषु, प्रसाद सभागतामप्रमेयबुद्धज्ञानाधिमुक्तिप्रीतिवेगसमुद्रविवर्धनतायै, विवर्धनसभागतां सर्वावरणपर्वतानाम विवर्त्यज्ञानसभागतां वुद्धज्ञानानन्तसंभारसंभवाय, 15 उपपत्तिसभागतां सर्वसत्त्वपरिपाकविनयकालेपु, विहारसभागतां सर्वज्ञतानयमुखेषु, विषयसभागतां धर्मधातुनयवृषभिताविषयप्रवेशेषु, अनालय सभागतां सर्वाय्यसमुद्धातितचित्ततायै, सर्वधर्मनिर्देशसभागतां धर्मसमताज्ञानावतारेपु, अभियोगसभागतां सर्वबुद्धाविष्ठानस्वशरीरसंप्रतीच्छनतायै, अभिज्ञासभागतां सर्वलोकज्ञापनप्रतिपत्तिनयेषु, अनभिसंस्कारर्द्धिप्रतिलाभसभागतां सर्वदिक्क्षेत्रसागरावतारेषु, धारणीभूमिसभागतां सर्वधारणीसमुद्रावभासप्रतिलाभाय, 20 सर्वबुद्धधर्मचक्रसंध्यवतारसभागतां सर्वसूत्रान्तधर्मपर्यायेपु, गम्भीरधर्मप्रवेशसभागतां गगनतलोपमसर्वधर्मनयावतारेषु, अवभाससभागतां सर्वलोकधातुप्रसरेषु, अभिरोचनसभागतां यथाशयजगद्विज्ञप्तिंसंदर्शनेषु, प्रकम्पनसभागतां क्षेत्राधिष्ठानविकुर्वितसत्त्वदर्शनेषु, अमोघचरणसभागतां दर्शनश्रवणानुस्मृतिसत्त्वविनयेषु, निर्याणसभागतां प्रत्यलभत सर्वप्रणिधानसमुद्रनयपरिनिष्पत्तिदशबलज्ञानानुबोधाय । इति हि सुधनः श्रेष्ठिदारकः प्रसन्नचित्तः सर्वजग- 26 द्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामवलोकयन् आसां दशानां संज्ञाविशुद्धीनां प्रतिलाभादेत - प्रमुखान् बुद्धक्षेत्रपरमाणुरजः समान् सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः सभागतनयान् प्रतिलभते स्म ॥ २६७ अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमदर्शनतया अवतीर्णोऽनन्तमध्यकल्याणमित्रसंज्ञाविशुद्धिप्रतिलब्धो बुद्ध- 30 १ Bom. सर्वसत्त्व... सभागतां २B समुद्योतित . S 345
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy