SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 8346 २६८ गण्डन्यूहसूत्रम् । क्षेत्रपरमाणुरजःसमसभागतानयावतीर्णः एकांसं चीवरं प्रावृत्य येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता, तेनाञ्जलिं प्रणम्य तस्यां वेलायामिमा गाथा अभाषत यथा खचित्ते वशिता ममास्ति छन्दश्च वोधौ सुदृढोऽनिवर्त्यः । त्वदीयचित्तेऽपि हि मे तथैव खतैव देव्यद्य दृढोपजाता ॥ १ ॥ पापान्यशेषाणि विशोधितानि शुभो विपाको द्युतिमानवाप्तः । सुदर्शनायास्तव दर्शनान्मे समार्जिताश्चाक्षयशुक्लधर्माः ॥ २ ॥ चित्तं गुणौधैः समलंकृतं मे पृथग्विधैः सत्त्वहितप्रवृत्तैः । समलंकृतो यैश्चरितास्मि चयाँ क्षेत्रेषु सर्वेष्वपरान्तकल्पान् ॥ ३ ॥ निदर्शिता ते खलु सर्वधर्मान् निष्पत्तिरार्ये मदनुग्रहाय । हिताय मेऽनुग्रहसंज्ञयैव धर्मानुशास्ति परमां प्रयच्छ ॥ ४ ॥ विवर्तितो दुर्गतिपातमार्गो संदर्शितः खर्गपथो विशुद्धः । सर्वज्ञमार्गश्च निदर्शितस्ते यानानुयानः सुगतैरशेषैः ॥ ५ ॥ त्वदन्तिके मेऽनुपमाद्भुताद्य निर्याणसंज्ञा परमोपजाता । आकाशवच्चामलमप्रमाणं सर्वज्ञताधर्ममुखं विशुद्धम् ॥ ६ ॥ सर्वज्ञताशेषशुभाकरत्व संज्ञाद्य मे त्वय्युदिताप्रमेया । पुण्यार्णवा मे गगनप्रमाणाः प्रतिक्षणं चेतसि चोद्भवन्ति ॥ ७ ॥ उन्नेहि मे पारमिताभिरायें पुण्यैरचिन्त्यैश्च विवर्धयख ।
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy