________________
२६९
10
B139
-४१.११] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा।
संवर्धितः सर्वगुणैः शुभैश्च
सर्वज्ञपट्ट नचिरेण लप्स्य ॥ ८ ॥ कल्याणमित्रेषु हि मे सदैव
सर्वज्ञतामार्गप्रतिपूरिसंज्ञा। अतोनिमित्ता मम सर्वशुक्लं
संपूजिताशु प्रभविष्यतीति ॥ ९ ॥ सर्वे यतोऽर्थाः प्रभवन्ति चास्मात्
सिद्धश्च कल्याणगुणैरुपेतः । आराध्य चैवेनमनन्तवर्ण ___ सर्वज्ञमार्ग जगतां प्रवक्ष्ये ॥ १० ॥ आचार्यभूता मि गुणाप्रमेये
सर्वज्ञधर्मेषु मम प्रणेत्री। न कल्पकोटीनयुतैरसंख्यैः
शक्यं मया ते प्रतिकर्तुमार्ये ॥ ११ ॥ अथ खल सुधनः श्रेष्ठिदारकः इमा गाथा भाषित्वा सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां 15 रात्रिदेवतामेतदवोचत्-संदर्शितस्त्वया देवते ममायमचिन्यो बोधिसत्त्वविमोक्षविषयः । वदख मे देवते-को नामायं विमोक्षः ? कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्य- क्संबोधौ ? कियच्चिरेण वा त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे?
एवमुक्ते सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता सुधनं श्रेष्टिदारकमेतदवोचत्सर्वसत्त्वपरिपाकसंचोदनकुशलसंभवो नाम कुलपुत्र अयं विमोक्षः । अहं कुलपुत्र अनेन 20 विमोक्षण समन्वागता सर्वधर्मस्वभावसमतामनुबुद्ध्य सर्वधर्मप्रकृतिमवतीर्य अनालयं धर्म निश्रित्य सर्वलोकोच्चालिता सुविभक्तरूपतां धर्माणामवतीर्य अविसभागवर्णा अवैवर्तवर्णा अविकल्पवर्णा अनीलवर्णा अपीतवर्णा अलोहितवर्णा अनवदातवर्णा धर्मतामवतीर्य अनेकवर्णविभक्तिरूपात्मभावा नानात्ववर्णा अविसभागा अनानात्वा अवैमात्र्या अविकल्पा अनीला अपीता अलोहिता अनवदातवर्णा, अनेकवर्णा अप्रमेयवर्णा विशुद्धवर्णा सर्वव्यूहप्रमुञ्चनवर्णा समन्त- 25 दर्शनवर्णा सर्वजगत्सदृशवर्णा सर्वलोकाभिमुखातिरेकवर्णा समन्तावभासप्रतिभासवर्णा अप्रतिकूलदर्शनवर्णा लक्षणानुव्यञ्जनसुविशोधितवर्णा अनवद्यचरणप्रभासवर्णा महाबलविक्रमसंदर्शनवर्णा दुरासदगम्भीरवर्णा सर्वलोकापर्यादत्तवर्णा क्षणक्षणविचित्रवर्णा नानावर्णमेघसंदर्शनवर्णा नानारूपसंस्थानवर्णा अप्रमेयविकुर्वितसंदर्शनवर्णा सुरुचिरवचनवर्णा सर्वसुरूपचित्तवर्णा सर्वसत्त्वपरिपाकानुकूलवर्णा यथाशयवैनेयाभिमुखोपनीतकुशलवर्णा 30 अप्रतिहतसमन्तप्रभासवर्णा अच्छानाविलविप्रसन्नप्रभाखरवर्णा अभेद्यकायोपचयोपशोभित
847
98सुरुचित.