Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ धर्मोपदेश 119 11 DE-20 बहुजीवाकुला भवति, पांथानामप्येष क्लेशकारकः, एवंविधः सकलावगुणसंपूर्णोऽसाव प्रेक्षणीय एव इति श्रुत्वा सोऽपि रुष्टः ततः क्रुद्धेनेकेन सा छिन्नघाणा कृता, द्वितीयेन तस्याः कर्णौ छिन्नौ, तृतीयेन च महाकायो रौद्ररूपः सर्पस्तस्याः कंठे क्षिप्तः एवं दुर्दशां प्राप्ता सा रुदंती गृहे समागता, सर्वनगरजनैश्चोपहसिता, भर्त्रापि च त्यक्ता एवं कटुवाक्प्रसादतः सातीव दुःखिनी जाता. एवं श्वश्रूधूदृष्टांतं निशम्य हितार्थिभिर्जनैर्मधुरवचनानि वक्तव्यानि ॥ इति रसनोपरि कथा समाप्ता ॥ यद्दूरं यदुराराध्यं । यच्च दूरे व्यवस्थितं ॥ तत्सर्वं तपसा साध्यं । तपो हि दुरतिक्रमं ॥ २ ॥ तथाहि — इहैव भरते कुरुदेशे हस्तिनागपुरं नाम नगरं, तत्राश्वसेनाभिधो राजा, सहदेव्यभिधा च तस्य राज्ञ्यासीत्, अन्यदा तयोश्चतुर्दशस्वप्नसूचितोऽतीव मनोहररूपवान् सनत्कुमारनामा पुत्रोऽभूत् तस्य सनत्कुमारस्य महेंद्रसिंहनामा सूरराजसुतो मित्रं बभूव अथ स सनत्कुमारः क्रमेण सकलकलाकलापकलित आसीत्. अथान्यदा स सनत्कुमारो यौवनारंभे वसंतोत्सवे स्वमित्रेण सह क्रीडार्थ वने गतः तत्र E कर्णिका ॥७॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81