Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 73
________________ Scanned by CamScanner धर्मोपदेश ... ॥ अथ कृतकर्मफलोपभुक्तो कार्पटिककथा प्रारभ्यते ।। कश्चिदेकः कार्पटिकः सोमेश्वरयात्रायां वजन् पथि कस्मिंश्चिद्ग्रामे कस्यचिल्लाहकारस्योकसि रात्री ॥ ७१॥ a| सुप्तः. अथ तस्य लोहकारस्य पतिद्वेषिणी भार्या स्वपतिं निहत्य रुधिरलिप्तां कृपाणिकां प्रच्छन्नरीत्या तस्य । | सुप्तस्य कार्पटिकस्य पाश्वे निधाय कोलाहलं कृत्वा रुदितुं प्रवृत्ता. तस्या आर्तनादं श्रुत्वाऽरक्षकैस्तत्रागत्य | तस्य निरपराधिनः कार्पटिकस्य करो छिन्नी. तदा स कार्पटिको रुदन देवमुपालव्धुं प्रवृत्तः तदा तेन देवे नापि निशि प्रकटीभय तस्य प्रोक्तं, भो कार्पटिक! त्वं वृथा रुदनं मा कुरु? तव प्राग्भवं च शृणु ? पूर्व-14 E भवे तवैको भ्राता अजमारणायोद्यतो बभूव. तदा त्वया तस्याजस्य कर्णो धृतो, तव बंधुना च सोऽजः शस्त्रिकया व्यापादितः, एवं सोऽजो मृत्वेयं लोहकारस्य योपिज्जाता. स तव बंधुरपि कालांतरे मृत्वा • तस्याः पतिरभृतु, त्वमपि च मृत्वा कार्पटिको जातः. अथैवं क्रमेण भवतां त्रयाणामप्यत्र संयोगोऽभवत्. पूर्वभववरेण द्विष्टया तया निजस्वामी व्यापादितः, त्वयापि च निजकरच्छेदनरूपं तत्कर्मफलं लब्ध. अथैवं all७१ ॥ || निजकृतकर्मफलं मुंजानस्त्वं वृथा मां कथमुपालभसे ? इत्युक्त्वा सोऽदृश्यो बभूव. ॥ इति ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81