Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
EMAIL
धर्मोपदेश
॥ अथ वचनागुप्तौ कुंभकारिणीकथा प्रारभ्यते ॥ कस्मिंश्चिदग्रामे काचिदेका कुंभकारिणी वसतिस्म. सा चौरभीत्या निशायां निजाभरणानि गृहांगणे ॥७३॥
| मृत्तिकानिकराधः सर्वदा गोपयित्वा स्थापयति. निद्रावसरे च सर्वदा पठति, यथा-सुखे सुवेइ कुंभारडी। चोर न मटीयां लेइ ॥ खूणे वांधी गादही । वारइ त्राटी देई ॥१॥ एवं सा सर्वदा महता वरेण पठित्वा | सुखेन निद्रां करोति. तद्गृहनिकटे वसन् कोऽपि धूर्तश्चौरः सर्वदा तयोक्तानि तानि वचनानि शृणोति. - अथैकदा तेन धूर्तेन चौरेण चिंतितं, इयं कुंभकारी नित्यमेवेत्थं पठति, ततोऽस्या एतत्पठने कोऽपि हेतुविलोक्यते; नूनं सा निजमृत्तिकासमूहे धनं गोपयित्वा स्थापयति, अतो रात्रौ प्रच्छन्नं मया तस्या मृत्ति
कैव विलोकनीया. इति विचिंत्य रात्रौ तस्यां सुप्तायां तेन घूर्तेन प्रच्छन्नं तत्रागत्य सा मृत्तिकैव विवृत्य | विलोकिता, तदा तन्मध्यात्तस्याः स्वर्णाभूषणानि गृहीत्वा स धूतों निजगृहे समेत्य सुखेन निद्रामकरोत्. | अथ प्रभाते जागृता सा कुंभकारी निजांगणस्थं तं मृत्तिकासमुहं विरलीभृनं विलोक्य स्वाभूषणान्यपि ॥ ७३ ।। 3 तत्रानवलोक्य विलपंती निजवचनाऽगुप्ति निंदतिस्म. ॥ इति वचनाऽगुप्तौ कुंभकारीकथा समाप्ता॥
HOMEqE-HEIDOHORI
-11-OPHP-RDEN009

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81