Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कणिका
॥ ७७॥
| गंगा तिरोऽधत्त. अथ निजमनस्यतीवचमत्कृतः स द्विजस्तूण पश्चान्निजग्रामे समागत्य तस्य चर्मकारस्य 31
मातापित्रोभक्तिं शुद्धाचरणादि च विलोक्य हृष्टस्तस्मै कथयामास, भो पुरुषोत्तम! त्वदीयं धनं गंगया | स्वहस्तं प्रसार्य गृहीतं, त्वदुत्तमाचरणप्रशंसा च सत्यैव कृता. इत्युक्त्वा तस्मै धन्यवादं दत्वा स द्विजो | निजगृहे ययौ ॥ इति मातृपितृभक्तिव्यवहारशुध्यादिविषये मोचिककथा समाप्ता ॥
५ ॥ अथ प्रस्तावोक्तिविषये यशोभद्रकथा प्रारभ्यते ॥ __कस्मिंश्चिन्नगरे कोऽपि लघुकूचों वालो राजा राजपाटिका) गच्छन् हदृश्रेणी समायातः. तावता 17 हस्थितेन केनापि यशोभद्राभिधेन यूना वणिजा स्वकीय स्थलं कूर्चे निजहस्तेन स्पृष्टं तद् दृष्ट्वा तेन बालेन
नृपेण चिंतितं नूनमयं वणिग मदीयं लघुकूच दृष्ट्वाऽहंकारेण स्वकीयं स्थूलं कूचे स्पृशति. इति शंकया तेन बालेन राज्ञा रोषतस्तं धृत्वा चौरदंडं कारयितुं तलारक्षकाणां स समर्पितः. तदा बुद्धिवता समयज्ञेन च तेन वणिज़ा निजजीवितरक्षार्थ तस्य नृपस्य पादयोः पतित्वा प्रोक्तं, स्वामिन् ! मदीयं स्थूलं कूच स्पृ-17

Page Navigation
1 ... 77 78 79 80 81