Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश
|हितजीवहिंसादिसमुद्भवं पापं तीर्थस्नानेन तर्हि कथं प्रयातीति प्रतिबोध्य स तया सम्यग्धर्म ग्राहितः, एवं स द्विजोऽपि तस्या निजपत्न्याः परमोपकारं मन्यमानः सम्यग जिनधर्म पालयन प्रांते सुगतिभाग्बभूव. ॥ इति तीर्थस्नानेन पापापगमे विप्रकथा समाप्ता॥. .
॥ ६९॥
BHOOMARATDOORDEEPERHI
॥ अथौचित्ययुक्तवचनोक्तौ विप्रकथा प्रारभ्यते ॥ ... एकत्रौचित्यवचन-मेकतो ग्रंथकोटयः॥ पश्यौचित्यगिरा लेभे । बंधमोक्षं स माधवः॥१॥काशीपुयाँ माधवाख्यो द्विज एको दुर्गतो दुर्भगो दरिद्रश्चासीत्, तेन स लोकानामसुखावहो बभूव. लोकैश्च सर्वत्रैवं कथ्यते, योऽस्य माधवविप्रस्य मुखं प्रभाते विलोकयिष्यति, तस्य नूनं मध्याह्नानंतरमेव भोजनं भविष्यति. | एवं सा वार्ता शनैः शनैस्तन्नगरनृपस्याग्रे प्राप्ता. तदा स राजा लोकांस्तर्जयित्वा सक्रोधः प्राह, अरे! दुष्टा
नगरलोका नूनं मृषाभाषिणः संति, मुधैव तस्य निरपराधस्य माधवद्विजस्य दूषणं यच्छंति. अथ श्वोऽहमेव | तस्य द्विजस्य मुखं दृष्ट्वा प्रातरेव भोक्ष्ये. एवं लोकवाता मृषाकरणाय स राजा प्रातरेव तस्य विप्रस्य मुखं
AMERIEBHBIEODHAaudai

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81