Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 70
________________ Scanned by CamScanner धर्मोपदेश कर्णिका ६ ॥ " PARDHADSHEPHERIODEHP-REPRE तत्रैषा तुंबिकापि युष्माभिस्तत्तीर्थजले स्नाप्या, सोऽपि तथेति प्रतिपद्य तां कटुतुंबिकामादाय ततश्चलितः व ततः स क्रमेणाष्टषष्ठितीर्थयात्रां विधाय निजगृहे समागतः. सबहुमान मिलितश्च तत्र स्वजनवर्गः, तेन | प्रोक्तं तीर्थयात्रावृत्तांतं च निशम्य सकलोऽपि स्वजनवर्गस्तस्य प्रशंसां विधाय तं च धन्यं मन्यमानो ॐ स्वस्वस्थानं ययौ. ततस्तेन विप्रेण हर्षपूर्वकं तां तुंबिकां दत्वा प्रोक्तं, प्रिये! मयैषा तुंबिका त्वत्कथना नसारेण सर्वेष्वपि तीर्थेषु तत्तत्तीर्थजलेन स्नपितास्ति. ततः स विप्रोऽप्यतीव हृष्टो निजमित्रादिमिलनार्थ बहिर्गतः अथ तया चतुरया विप्रपत्न्या तत्प्रतिबोधार्थ तां तुंबिकां संस्कृत्य तस्याः पलेवः कृतः. भोज| नावसरे स विप्रोऽपि गृहे समागत्य भोक्तुमुपविष्टः अथ तया परिवेषितं तत्कटुतुंबिकापलेवं विषप्रायं विज्ञाय * कोपातुरः स विप्रः प्राह, अरे दुष्टे! दुराचारिणि! त्वया किमेतत्कृतं? तया प्रोक्तं स्वामिन् ! एषा कटुतुं. | बिकापि मया तु सकलतीर्थस्नानेनामृतमयीभृता ज्ञाता, तेन मया तत्पलेवं कृत्वा युष्माकं भोजनाय परिवेषितः: तत् श्रुत्वा स विप्रोऽपीषद्विहस्य प्राह, भो मुग्धे! तत्तुंबिकामध्यस्थं कटुकत्वं तु तीर्थस्नानेनापि न शुष्यति. तदा तत्पत्न्या प्रोक्तं, स्वामिन् ! सर्वदा दुराचरणपरराजप्रतिग्रहमृतश्राद्धादिभोजनयज्ञवि-12

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81