Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ ७० ॥
•LEELEY-20
| दृष्ट्वा स्वयं भोक्तुमुपविष्टः एवं यावत्स भोजनस्य प्रथमं कवलं गृह्णाति तावदकस्मान्निषादिभिरागत्य तस्य पट्टहस्तिमरणं निवेदितं तत् श्रुत्वा शोकातुरः स नृपो मुमूर्छ. मूर्छानंतरं स तत उत्थाय हाहारवपरो मृतहस्तिसमीपे गतः तदनंतरं कथंचिद्गतशोकः सोऽतीवाग्रहेण मंत्रिभिः संध्याकाले भोजितः अथ द्वितीयदिने मंत्रिप्रभृतिभिस्तद्ब्राह्मणमुखदर्शनफलं स्मारितोऽसौ नृपः कथयामास, नूनं लोकोक्तिः सत्यैव, यो दुर्भगो द्विजो ममाप्येवं बाधाकारको जातः, स लोकानां कथं न पीडयिष्यति ? अत एनं दुगेतं द्विजं शूलाधिरूढं कुरुत ? अथैवं नृपादिष्टाः सुभटा यावत्तं माधवं द्विजं बध्ध्वा वधस्थाने नयंति, तावत्तेनोक्तं, नाहमेकाक्येवमेवंविधः, इत्युक्त्वा स हसतिस्म. सुभटैश्च तैस्तदुक्तं तस्य हसनं च राज्ञे ज्ञापितं, तदा कौतुका स राजा तं पश्चान्निजसमीपे समाहूय तत्कारणं पप्रच्छ तदा स माधवो द्विज उवाच, राजन् ! नूनं त्वं मत्तोऽप्यधिकनिःकृष्टो मया ज्ञातः, अतोऽहं नैकाक्येव निःकृष्टः, यतो मदीयमुखं दर्शनस्तव विकाले | भोजनं जातं, मम तु त्वदीयमुखदर्शनादेवं मरणमेव जायमानमस्ति तत् श्रुत्वा रंजितो राजा तं द्रव्यादिना सत्कृत्य मुमोच ॥ इत्युचितवचनोक्तौ माधवंद्विजकथा ||
CHENE
कर्णिका
॥ ७० ॥
Scanned by CamScanner

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81