Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ धर्मोपदेश ॥ १९ ॥ 30 0-13000 खनित्वा यावत्तमर्थं तत्र निःक्षिपति, तावत्तस्य पित्रा प्रोक्तं, भो सुत ! धनलोलुपा धूर्ताः सर्वत्र भ्रमंति, | अतो मन्मनोऽधीरं, अतस्त्वं सर्वतो विलोकय ? ततः पुत्रेण यावत्परितो विलोकितं तावन्नातिदूरमेकं पुरुमृतकं विना तत्र न कोऽप्यन्यो दृष्टः तन्मृतकवृत्तांतश्च निजपिले तेन कथितः तदा जनकेन तज्जीवनशंकया पृथक् पृथक् तस्य कर्णद्वयनक्रच्छेदनं च सुतपार्श्वात्कारितं. तथापि स धूर्तशिरोमणिर्निरुद्ध श्वासो निश्चेष्टः काष्टवदेव स्थितः तेन धूर्तेनार्थलोभात्कंठच्छेदनावधि साहसं कृतं ततस्ताभ्यां पितापुत्राभ्यां निःशंकमेव तत्र निजधनं गुप्तीकृतं. अथ गृहं गतयोस्तयोस्तेन धूर्तेनोत्थाय शीघ्रमेव तत्सकलमपि धनं भूमितः कर्षितं, चिंतितं च श्रवणनक्राभ्यां हीनोऽपि धनिकस्तु पूज्यत एव ततोऽसौ तद्धनव्ययेन वेश्यादिभिः सह विललास. अथैकदा तेन रत्नार्केण श्रेष्टिना तद्धनाकर्षणाय तां भुवं खनित्वा यावत्स गत विलोकितस्तावत्तेन धनरहितो रिक्तो दृष्टः तदा तत्रैव मूर्च्छां प्राप्य स भृशं विललाप ततोऽसौ तन्निजधनं नष्टं निश्चित्य गृहे पश्चादागतश्चिंतयति, नूनं तेनैव कर्तितनककर्णेन धूर्तेन स्तेनेन मदीयं तद्धनं गृहीतं संभाव्यते ततः स श्रेष्ठी वेषांतरं विधाय तत्पुरुषगवेषणार्थे पुरमध्ये भ्रमतिस्म कियद्भिर्दिनैश्च तेन स 040-23000-3000 कर्णिका ।। १९ ।। Scanned by CamScanner

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81