Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 34
________________ धर्मोपदेश ॥ ३२ ॥ 1-961E|8-10 सिद्धविद्या योगिनी व्योमगामिन्या विद्यया तस्य श्रेष्ठिनो गृहे प्रविष्टा तदा ताभिश्चतसृभिरपि वधूभिः सविनयं तस्या बहुविधभक्तिं विधाय प्रोक्तं, भो भगवति ! भवत्यात्र प्रवेशः कथं लब्धः ? किं नः श्वशुरो द्वारि नास्ति ? तन्निशम्य तथा प्रोक्तमहं विद्यया गगनमार्गेणात्रागमं; ततस्ताभिर्वधूभिः सा योगिनी भक्त्या तथा प्रीणिता, यथा संतुष्टा सा साधारां ताभ्यो व्योमगामिनीं विद्यामदात् ततः प्रभृति ताः सर्वा अपि वध्वो रात्रौ सशृंगारा एककाष्टाधारेण प्रतिदिनं स्वर्णद्वीपे यांति, तत्र चेंद्रादिदेवान् रंभाद्यप्सरसां | नृत्यादि विलोक्य हृष्टाः सत्यो निशाशेषे च स्वस्थाने समायांति एवं कुर्वतीनां तासां बहूनि दिनानि निर्गतानि अथ तस्य शृंगदत्तश्रेष्टिनश्चैको मुख्यसेवको नित्यं काष्टस्थानविपर्यासदर्शनाज्जातशंक एकदा रात्रौ गतनिद्रः स्थितः तदा तेन तत्काष्टस्थानविपर्यासकारणं ज्ञातं अथ द्वितीयदिने स सेवकः पूर्वत एव तस्य काष्टस्य कोटरे प्रविश्य स्थितः, ताभिः सार्धं च प्रच्छन्नं निशि स्वर्णद्वीपे प्राप्तः; तत्र तेन सर्वमपि दृष्टं, मनस्यत्यंतं स विस्मितश्च. अथ वलमानेन तेन ततः स्वर्णेष्टिकाद्वयं निजसार्थे संग्रहीतं. अथ तथैव निजस्थाने समागतः स दासो निश्चितः सुखेन सुष्वाप ततस्तेन श्रृंगदत्तेन कार्याय प्रेरितो द्रव्यो कर्णिका ॥ ३२ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81