Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कर्णिका
॥४८॥
AADHARIWODetaala
मिष्टान्नभोजनं ज्ञेयं," " स्वल्पनिद्रया च सुखशयनं ज्ञेयं,” “निरीहत्वेन च लोकप्रियत्वमेव भवति." | इत्येवं तस्यात्रिपद्या अर्थों मे मनसि प्रतिभासते. तत् श्रुत्वा स सोमवसुविप्रश्चिंतयति, नूनमयं धर्ममा| र्गानुसारी वर्तते. अथैवमग्रे गच्छतस्तस्य त्रिलोचनाचार्यनामा जैनगुरुर्मिलितः. तदा तमपि स नमस्कृत्य | सम्यग्धर्मप्राप्तीच्छया तस्यास्त्रिपद्या अर्थ पप्रच्छ. तेन प्रोक्तं, भो वत्स! “अकृताऽकारिताऽननुमतभिक्षा| लब्धं निदोष भोजनं मिष्टान्नं ज्ञेयं,” "विधिना प्रमादरहितत्वेन स्वल्पनिद्रया सुखशयनं ज्ञेयं," "निरीES हत्वपूर्वकं भाषासमित्या प्रियभाषणेन च लोकप्रियत्वमेव भवतीति.” यतः-विश्वस्यापि स वल्लभो गुण-*
गणस्तं संश्रयत्यन्वहं । तेनेयं समलंकृता वसुमतो तस्मै नमः संततः ॥ तस्माद्धन्यतमः समस्ति न परस्तस्यानुगा कामधुक् । तस्मिन्नाश्रयतां यशांसि दधते संतोषभाक् यः सदा ॥ १॥ तत् श्रुत्वा सत्यतत्वज्ञानात्संतुष्टः स सोमवसुविप्रस्तां सत्यार्थी त्रिपदीमनुसृत्य धर्मक्रियां कुर्वतां तेषामेव जैनाचार्याणां समीपे निजात्मोद्धारार्थ प्रवव्राज. क्रमेण च स सुगतिं प्राप. एवं विवेकिना विचार्यैव विवेकेन धर्मो ग्राह्यः ॥ ति धर्मतत्वपरीक्षाविषये सोमवसुविप्रदृष्टांतः ॥
EMIEROBERTEBELUEBRITAH

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81