Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ ६४ ॥
••3][43
| सा तस्याः समीपे दीक्षां जग्राह. अथ तस्या उदरे पूर्वसंभवो गर्भ आसीत् परं व्रतांतरायभयात्तया तस्य महासत्या अग्रे स्वकीयं तत्स्वरूपं न निवेदितं. अथ तस्याः स निजपतिसंभवो गर्भोऽनुक्रमेण वृद्धिं प्राप: तदा तया महासत्या सुव्रतया तस्यै प्रोक्तं, वत्से किमेतत् ? सा प्राह भगवति ! दीक्षाग्रहणाकांक्षया मयेष वृत्तांतो भवत्या न ज्ञापितः ततस्तया प्रवर्तिन्या सा गुप्तवृत्त्या गीतार्थसुश्रावकगृहे मुक्ता, तत्र तस्याः पुत्रप्रसवो बभूव, तस्य पुत्रस्य च यशोभद्र इति नाम परिकल्पितं क्रमेणाष्टवार्षिकश्च स गुरुभिर्दीक्षितोऽध्यापितश्च, यौवनकाले च स उन्मत्तीभूय विषयाभिलाषी जातः, तेन च स विंध्याचलं स्मरन्मदोन्मत्तहस्तीव निरंकुशः परिभ्रमति, चित्तं विना च केवलं मुनिवेषं धारयति यतः - हरिबंभ पुरंदर-सुरनरनिव• हाणिवि जिया जेण ॥ सो मयणो लद्धरसो । जेण जिओ तं जिणं नमह ॥ १ ॥ सवगहाण पभवो । | महागहो सब दोसपावठिई || कामग्गहो दुरप्पा | जेणभिभूयं जगं सव्वं ॥ २ ॥
इतश्चैकस्मिन्नवसरे तेन निजमातुरग्रे निवेदितं, मातर्न शक्नोम्यहं व्रतं पालयितुं, अतो निजे राज्ये | यास्यामि, भजिष्यामि च तत्र गार्हस्थ्यं भुक्तभोगश्च पुनर्वृद्धत्वे व्रतं गृहीष्ये, अधुना चाहं निजपितृव्य
D
330040030
कर्णिका
॥ ६४ ॥
Scanned by CamScanner

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81