Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 67
________________ ॥ ६५ ॥ धर्मोपदेश पुंडरीकपार्श्वे स्थितो राज्यं करिष्यामिः तत् श्रुत्वा माता प्राह, वत्स तर्हि ममैकं प्रार्थितं कुरु ? - अशक्तोऽपि व्रतं कर्तुं । मम प्रार्थनयानया ॥ तिष्ट द्वादश वर्षाणि । पश्चात्कुर्याद्यथोचितं ॥ १॥ तत् श्रुत्वा तेनापि मातुस्तद्वचनं प्रतिपन्नं ततो द्वादशवर्षांते गुरुण्या द्वादशवर्षाणियावत् स स्थापितः ततो गुरुवाक्येन स द्वादशवर्षाणि यावत्स्थितः एवमष्टचत्वारिंशद्वर्षांते यावत्स ततो गंतुं लग्नः, तावत्तस्य माता तस्यैकं रत्नकंबलं ददौ ततोऽसौ स्वपितृव्यपुंडरीकपार्श्वे गंतुं प्रवृत्तः, रजन्यां च साकेतपुरे प्राप्तः अथ प्रातरहं भृपाला यास्यामीतो विचित्य स रात्रौ कस्मिंश्चिदेवकुले प्रेक्षणकं विलोकयन् स्थितः इतस्तत्र भूपालादयो । बहवो लोकास्तत्प्रेक्षणकं विलोकयितुं समायाताः तत्रैका मनोहरा नर्तकी लोकानामतीवानंददायकं नृत्यं विदधातिस्म, एवं रात्रिप्रहरत्रये व्यतिक्रांते सा नर्तकी खिन्ना. अथ तां खिन्नां दृष्ट्वा तस्या माता प्राह, वत्से ! बह्रौ व्यतिक्रांते स्तोके च व्यतिकरेऽथावशिष्टे कथं त्वं खिन्ना सती निजांगं मोटयसि ? यतः - सुष्टु गीतं त्वया सुष्टु । नर्तितं सुष्टु वादितं ॥ दीर्घरात्रिमतिक्रम्य । मा प्रमादीर्निशात्यये ॥१॥ एनं श्लोकं श्रुत्वा स यशोधनस्तपोधनो वैराग्यपरो निजं रत्नकंबलं तस्यै ददौ राजकुमारोऽपि तस्यै रत्नजटितं सुवर्णकुंडल 00:06 100 00: --- कर्णिका ॥ ६५ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81