Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ ५० ॥
•2000-JEK
| तप्रियाभिधः स सुरोऽस्ति, तेनाद्य मम समीपे समागत्य पृष्टं यथा भो मुनीश ! मयि च्युते मद्विमाने मदीयस्थाने कः सुरो भविष्यति ? तदा मया प्रोक्तं, भो देव! रणशूराभिधो नृपस्त्वयात्रानीतो धर्मे प्राप्स्यति, स च निजायुःप्रांते तव विमाने त्वत्स्थाने देवो भविष्यति तत् श्रुत्वा तेन देवेन त्वद्धितकाम्यया त्वमत्रानीतोऽसि तन्निशम्य प्रबुद्धेन राज्ञा पर्वसु पौषधग्रहणाभिग्रहो गृहीतः ततस्तेनैव सुरेण स निजनगरे मुक्तः तदादितो धर्मकर्मरतः स रणशूरराजा पर्वसुं पौषधत्रतं चकारः तद्भार्या श्रीकांतापि नृपोपदेशेन धर्मध्यानपरा बभूव एवं पौषधत्रतयुतं जिनधर्मे प्रतिपाल्य प्रांते चाराधनापूर्वकं स कालं कृत्वा पंचम कल्पे | देवोऽभूत् ॥ इति पौषधव्रतोपरि रणशूरनृपकथा समाप्ता ॥
अस्मिन्नसार संसारे । ह्यतिमुक्तमुनींद्रवत् ॥ धृतवैराग्यसंभारो । जीवो मुक्तिमवाप्नुयात् ॥ १ ॥ पोलासपुरे विजयाभिधो नृपो बभूव, तस्य च श्रीदेवीनाम्नी राज्ञ्यभवत्ः तयोरतिमुक्तकाभिषः सुतो | जातः क्रमेण षड्वार्षिकोऽसौ कुमारो बहुदारकदारिकाभिः सह रममाणो निजप्रासादांगणे स्थितोऽभूत.
440943
कर्णिका
।। ५० ।।
Scanned by CamScanner

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81