SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ ५० ॥ •2000-JEK | तप्रियाभिधः स सुरोऽस्ति, तेनाद्य मम समीपे समागत्य पृष्टं यथा भो मुनीश ! मयि च्युते मद्विमाने मदीयस्थाने कः सुरो भविष्यति ? तदा मया प्रोक्तं, भो देव! रणशूराभिधो नृपस्त्वयात्रानीतो धर्मे प्राप्स्यति, स च निजायुःप्रांते तव विमाने त्वत्स्थाने देवो भविष्यति तत् श्रुत्वा तेन देवेन त्वद्धितकाम्यया त्वमत्रानीतोऽसि तन्निशम्य प्रबुद्धेन राज्ञा पर्वसु पौषधग्रहणाभिग्रहो गृहीतः ततस्तेनैव सुरेण स निजनगरे मुक्तः तदादितो धर्मकर्मरतः स रणशूरराजा पर्वसुं पौषधत्रतं चकारः तद्भार्या श्रीकांतापि नृपोपदेशेन धर्मध्यानपरा बभूव एवं पौषधत्रतयुतं जिनधर्मे प्रतिपाल्य प्रांते चाराधनापूर्वकं स कालं कृत्वा पंचम कल्पे | देवोऽभूत् ॥ इति पौषधव्रतोपरि रणशूरनृपकथा समाप्ता ॥ अस्मिन्नसार संसारे । ह्यतिमुक्तमुनींद्रवत् ॥ धृतवैराग्यसंभारो । जीवो मुक्तिमवाप्नुयात् ॥ १ ॥ पोलासपुरे विजयाभिधो नृपो बभूव, तस्य च श्रीदेवीनाम्नी राज्ञ्यभवत्ः तयोरतिमुक्तकाभिषः सुतो | जातः क्रमेण षड्वार्षिकोऽसौ कुमारो बहुदारकदारिकाभिः सह रममाणो निजप्रासादांगणे स्थितोऽभूत. 440943 कर्णिका ।। ५० ।। Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy