Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ ६० ॥
15-08-20
कुप || २६ ॥ अद्यारक्षो नवः कोऽपि । न स निद्राति तन्मम ॥ वेला जातेयती तच्च । वृद्धः सर्वं निरीक्ष्य च ॥ २७ ॥ दध्यौ राज्ञोऽपि दुःशीला । यद्येवं रक्षिता अपि ॥ तन्नः स्त्रीषु न दोषो य-न्नासां त्राता कुलंविना ||२८|| सोऽथ सुप्तो न जागर्त्ति । सर्वः कोऽप्युत्थितः प्रगे || सप्ताहादुत्थितः सोऽथ । सर्वामाख्यत्वप्रभोः कथां ॥ २९ ॥ तं विसृज्य नृपेणांत - मृन्मयः कारितः करी ॥ राज्ञ्यः सर्वा नृपेणोक्ता । विवस्त्रास्तमलंघयन् ॥ ३० ॥ सा तु राज्ञी जगादैवं । हस्तिनोऽस्माद्दिभेम्यहं ॥ हताथोत्पलनालेन । राज्ञा सा मूर्छयापतत् ॥ ३१ ॥ राज्ञोचेऽथ न ते भीति - मत्तेभात्कृत्रिमाच्च भीः ॥ नामूर्द्धः श्रृंखलाघातान्मूर्च्छिता तुत्पलाहता ॥ ३२॥ तत्पृष्ठे श्रृंखलाघातः । प्रेक्षितः क्ष्माभृता ततः ॥ अरे पापाधमा सैषा । वध्या सारोहकद्विपा ॥ ३३ ॥ सोऽथानाय्य गजा रोहो । राज्ञोचे पाप संप्रति ॥ सराज्ञीको गजारूढ - स्त्वं शैलाग्रादितः पत ॥ ३४ ॥ स तथाहिं समारुह्य । राजादेशाद्गजं दधौ ॥ क्रमात् त्रींश्वरणान् व्योम्नि । विधाप्येकांहिणा स्थितं ॥ ३५ ॥ रक्षेभमिति राजोचें । लोकैर्दोषोऽस्य न प्रभो ॥ लोकवाक्यात्ततो राज्ञा । स ऊचे रक्ष हस्तिनं ॥ ३६ ॥
सोऽभ्यधात्करिणं त्रास्ये । चेन्नो यच्छसि जीवितं ॥ दत्तं तेनांकुशेनेभो । वालयित्वा स्थले कृतः
何回回一回回
कर्णिका
·11 & 0 11·
Scanned by CamScanner

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81