Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
भोपदेश
धमापदश
कर्णिका
॥४२॥
-ABHADRADHDBPOOJapa
सविस्मयं परमविषादं प्राप्तः. तदा सचिवादिभिः सभाजनै राज्ञे विज्ञप्तं, हे स्वामिन् ! सोऽघटकुमारोऽत्र न भवत्समीपे समाकार्यतां, यथासौ युष्मत्पादान्नमस्यति. तदा राज्ञापि तदुपरोधेन स निजसमीपे समाका
रितः. सोऽघटकुमारोऽपि ससैन्यो नृपसमीपे समागतः, राज्ञापि समहोत्सवं नगरमध्ये प्रवेशितः. अथैवं । कियत्सु दिनेषु गतेषु प्रकारांतरेण तं हंतुकामो राजा प्राह, भो अघटवत्स! अद्य वनस्थामस्मद्गोत्रदेवतां पूजयितुं रात्रौ त्वया पूजोपकरणयुतेन गंतव्यं. अथाघटोऽपि नृपादेशमंगीकृत्य पूजोपकरणस्थालं निजहस्ते | | गृहीत्वा रात्रौ गोत्रदेवतापूजनार्थ वनमध्ये गंतुं प्रवृत्तः. इतो निजप्रासादगवाक्षस्थेन नृपपुत्रेण स गच्छन् ? | दृष्टः, तदा स नृपपुत्रस्तमघटकुमारं स्वसमीपे समाहृय कथयामास, भो कुमार! नवोढस्य भवत एवंविधरातिसमये वनमध्ये गंतुं न युक्तं, इत्युक्त्वा स स्वयमेव तत्पूजोपकरणस्थालं गृहीत्वा गोत्रदेवीपूजार्थं वनमध्ये गतः तत्र च यावत्स देवीभवनसोपानमारूढस्तावदघटभ्रांत्या प्रच्छन्नस्थेन नृपप्रेरितधनुर्धरसुभटेन बाणैर्विद्धो भूमौ पपात. एवं निजपुत्रमरणं श्रुत्वातीव विषण्णो राजा वमनसि चिंतयामास, अहो! कर्मणामेवेह प्राधान्यं ! न पुनर्मनश्चिंतितं कार्य सिध्यति. अथैवं मया तु वचसामाप्यगोचरं पापं कृतं, इत्या
MSRIME-DBHABIDEOB
|| ४२॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81