Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 47
________________ Scanned by CamScanner धर्मोपदेश । ॥४५॥ जीवहिंसाविधानेन । जनो दुःखी प्रजायते ॥ अतो जीवदया कार्या । वैरं कार्य न केनचित् ॥ १॥ कर्णिका ___ एकस्मिन् ग्रामे कोऽपि दरिद्रो म्लेच्छो वसतिस्म. स दुष्टबुद्धिर्निशायां सर्वदा कृषोवलक्षेत्रेषु गत्वा प्रच्छन्नं निजोदरपूर्तये धान्यं चोरयति. तद्भक्षणेन च स्वाजीविकां करोति. क्रमेण तस्य तद्वृत्तांतः कृषि-a | कारैतिः, परं तस्य दुष्टस्वभावं वीक्ष्य ततो निजापद्भयात्कोऽपि तं न निवारयति, परं तथाकरणतः सर्वेऽपि कृषिकारास्तदुपरि द्विष्टा बभूवुः. अथैकदा केनचित्पराक्रमवता कृषिकारेण क्षेत्रमध्ये धान्यचौरी कुर्वन् सच दुष्टः प्रच्छन्नं खड्गेन हतः. एवं तं हतं प्राणरहितं च दृष्ट्वा सर्वे कृषिकारो हृष्टा बभूवुः. अथ स दुष्टोऽपि न दुर्ध्यानेन मृत्वा व्यंतरो जातः, पूर्वभववैरेण स तद्ग्रामलोकानामनर्थ कर्तुं विचारयामास. ततोऽसौ तत्रैव ति निजतुंबिकामधिष्ठाय स्थितः. अथैकदा पूर्वभवे निजहत्याकारकः स एव कृषिकारस्तत्र मागें हलं गृहीत्वा निजक्षेत्रे गच्छन् दृष्टः. पूर्ववैरं स्मृत्वा तुंबिकास्थेन तेन व्यंतरेण तंप्रति प्रोक्तं, भो किमर्थं त्वया कृषिकरणादिना क्लिश्यसे? केवलं मद्भक्तिमेव कुरु ? यथाहं ते क्लेशविनैव सर्वसमीहितं करिष्ये. चमत्कृतेन तेनापि ॥ ४५ ॥ सा तुंबिका गृहीता, निजगृहे च समानीता. ततस्तेन कृषिकारेण स्वगृहस्थितं सर्वमपि धान्यादि विक्रीय |3| ::

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81