Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश
कर्णिका
॥ ३९ ॥
PadalegaveIDDEHDHe*
कृतांतमिव निःकरुण कंचित्स्वसेवकं तन्मारणाय समादिदेश. तदा स सेवकोऽपि तस्या मालिन्या गृहे गत्वा बलात्कारेण च तं बालं गृहीत्वा तन्मारणाय निर्जनवने गतः. एतस्मिन्नवसरे “तात तातेति" ब्रुवता तेन बालेन निजजनकस्येव तस्य कूर्चमाकृष्टं. तदा तस्य पुण्यानुभावात्तेनापि निजमनसि कृपां | लात्वा चिंतितं, अहं त्वनेन बालेन "तात तातेति" मधरं भाषमाणेनाहं कृत एव निजपिता, तत्कथमेनं | मारयामि? धिगस्तु राजसेवां! एवं चिंतयता तेन स बालो देवकुले यक्षप्रतिमया उत्संगे मुक्तः. तत्रापि स बालस्तु तस्य यक्षस्य प्रतिमायाः कूर्चाकर्षणतुंदारोहादिवाललोलायितानि कृतवान्. एवंविधाभिस्तदीयचेष्टाभिः प्रमुदितः स यक्षोऽपि निजमनसि चिंतयति, अहो! अयं बालस्तु मम पुत्रस्थानेऽभूत, तदयं मया पुत्रवत्पालनीयः. इतस्तत्रैव वनमध्ये आवासितमेकं देवधराख्यं वणिजं निःपुत्रं विज्ञाय तत्र रात्री गत्वा स यक्षस्तं वणिजप्रत्याह, तुष्टोऽहं भवंतंप्रति, तेन मत्पुत्रस्थानीयो मच्चैत्यस्थ एको बालस्त्वया ग्राह्यः पालनीयश्च. एवंविधेन यक्षवचनेन परमं प्रमोदं प्राप्तः स वणिगपि प्रातरुत्थाय तत्र यक्षचैत्ये गत्वा तं बालं जग्राह. ततस्तेन स बालो निजप्रियायै समर्पितः. क्रमेण कलाचार्यसमीपे स बालः सकला अपि

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81