Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 19
________________ Scanned by CamScanner ॥ १७॥ धर्मोपदेश * ढक्काः संति; अथ यः कोऽप्यमुं वटवृक्षमवलंव्य पर्वते च गत्वा ता ढक्का वादयेत्, तदा तासां नादभीताः कोटिसंख्याका भारंडपक्षिण उत्पतिष्यंति, तेषां पक्षवातप्रेरितानि चामनि प्रवहणानि मागें चलिष्यति. तेनेत्युक्ते स नागदत्तो नाविकान्प्रति प्राह, यः कोऽपि तत्र याति, तस्याहं लक्षसुवर्ण यच्छामि, परं मृत्युभयात्तत्र गंतुं कोऽपि नैच्छत्. तदा स नागदत्तो लोकानामुपकारं विचिंत्य साहसैकवीरो वटशाखामवलंब्य स्वयमेव तत्र जगाम. तत्र जिनप्रासादे गत्वा प्रभु च नमस्कृत्य ताः सर्वा अपि ढक्का वादयामास. तासां - नादेन भीता भारंडपक्षिणस्तत उत्पतिताः, तेषां पक्षवातप्रेरितानि सर्वाण्यपि प्रवहणानि मार्गे लग्नानि. अथ नागदत्तेन तत्र स्वयं सामायिकमादायाष्टाह्निकातपः प्रत्याख्यातं. अत्रांतरे तत्रैकश्चारणमुनिरुपागतः, तदा हृष्टो नागदत्तस्तं मुनि महाभक्त्या प्रणिपत्योवाच, भगवन् ! मेऽनशनं दीयतां? तदा मुनिरुवाच, भो महाभाग! अद्यापि भवतो भोगफलं कर्म विद्यते. इतस्तत्रैको विद्याधरः समायातः, सोऽपि तं चार णमुनि नमस्कृत्य तत्रोपविष्टः. मुनिनापि तस्मै धर्मोपदेशो दत्तः, प्रतिबुद्धेन तेन विद्याधरेण मांसभक्षण-1 ॥ १७ ॥ 17| प्रत्याख्यानं कृतं. ततः स चारणमुनिर्गगनमार्गेणोत्पतितः. ततो हृष्टेन तेन विद्याधरेण निजपुत्री तेन | DegorieDekdamadeddalaa BHELDHODIODODIOHDHI

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81