Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
पिदेश
॥१५॥
DeaseDRENDSDOMorelDOMBI
परेण कारिता श्रीजिनेंद्रप्रतिमापूजा दृष्टा. तदा हृष्टेन तेन निजजनकायोक्तं, हे तात! अहमपि निजभुजाभ्यां धनमर्जयित्वैवंविधां श्रीजिनेंद्रपूजां करिष्यामि. पित्रा तु तं वालं विज्ञाय न किंचिदपि प्रत्युत्तरितं. अथ द्रव्यार्जनाय देशांतरगमनोत्सुकः स नागदत्तस्तु निजहहे समुपविष्टः. इतः कश्चिदेको ब्राह्मणः पंच
शतमूल्येन श्लोकैकविक्रयोत्सुकस्तत्र समागतः, स च श्लोको यथा-अकर्तव्यं न कर्तव्यं । प्राणैः कंठगव तैरपि ॥ कर्तव्यमेव कर्तव्यं । प्राणैः कंठगतैरपि ॥ १॥
अथ स नागदत्तः पंचशतद्रम्मव्ययेन तं श्लोकं ततो ब्राह्मणादग्रहीत. इतस्तत्र समागतेन पित्रा क्रोधेन सोऽत्यर्थं तर्जितः, एवं पित्रापमानितः स नागदत्तः पंचशतप्रवहणैः सह समुद्रयात्रार्थं चचाल. अथ कियंति दिनानि यावत्तानि प्रवहणानि समुद्रमध्ये प्रचेलुः इतोऽकस्मात् तानि सर्वाण्यपि प्रवहणानि भुजंगवलयपर्वतकुंभिकायां पतितानि. इतश्चिंतातुरेण तेन नागदत्तेनाग्रेऽपि तत्रैव कुंभिकायां पतितं प्रवहणमेकं दृष्ट. तदा स नागदत्तस्तस्मिन् प्रवहणे गतः. तत्र च तेनैकः पुरुषो मरणांतदशां प्राप्तो दृष्टः, नागदत्तेन स पुरुषोऽनशनपूर्वकं नमस्कारदानेन नियमितः. अथ तत्र भुजंगवलयपर्वते सुवर्णद्वीपाधिपति
॥१५॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81