Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 18
________________ ॥ १६ ॥ धर्मोपदेश 13 सुंदराख्यनृपतिपालिताः पंचशतशुका निवसंति अथ तत्र कुंभिकायां यः कोऽपि कष्टे पतति, तद्वृत्तांतं तन्मध्यादेकः शुको नृपाधे समेत्य निवेदयति, परमकृपालुः स सुंदरनृपश्च तत्कष्टभंजनोपायं करोति. अथैकदा तेन नागदत्तेन प्रवहणागतस्यैकस्य शुकस्य पादे निजकष्टोदंतचिट्टिका बद्धा. ततः स शुकोऽपि चिट्टि कायुतः सुंदरनृपपार्श्व गतः तच्चिट्टिकावृत्तांतं वाचयित्वा दुःखितो राजा भोजनमपि न करोति ततस्तेन राज्ञा नागदत्तकष्टनिवारणार्थं निजनगरमध्ये पटहोद्घोषणा कारिता. तदा तत्र वास्तव्येनैकेन वृद्धनाविकेन स पटहः स्पृष्टः, निवेदितं च तेन राज्ञे, हे स्वामिन्नहमुपायेन समुद्रमध्ये गत्वा भुजंगवलय कुंभिकामध्यात्तं कष्टे पतितं पुरुषं निष्काशयिष्यामि हृष्टेन राज्ञा तस्मै नाविकाय लक्षसुवर्णे प्रदत्तं. अथ स वृद्धनाविकोऽपि प्रवहणस्थितस्तत्र भुजंगवलयपर्वतद्वारे प्राप्तः तत्र तेन तं प्रवहणस्थितं नागदत्तंप्रति कथितं, यदि भवतां मध्यात्कोऽपि साहसं कुर्यात्तदैतानि प्रवहणानि कुंभिकामध्याद्दहिर्निस्सरंति तदा स नागदत्तस्तं वृद्धनाविकंप्रति जगाद, कथंविधं साहसं विधेयं ? नाविकेनोक्तमस्य भुजंगवलयपर्वतस्योपरि इंद्रनीलमणिमयप्रासादे मणिमयं श्रीनेमिनाथजिनेश्वरस्य बिंबं वर्तते, तस्मिन् प्रासादे च महत्प्रमाणा 3][49 04-0 कर्णिका ॥ १६ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81