________________
॥ १६ ॥
धर्मोपदेश 13 सुंदराख्यनृपतिपालिताः पंचशतशुका निवसंति अथ तत्र कुंभिकायां यः कोऽपि कष्टे पतति, तद्वृत्तांतं तन्मध्यादेकः शुको नृपाधे समेत्य निवेदयति, परमकृपालुः स सुंदरनृपश्च तत्कष्टभंजनोपायं करोति. अथैकदा तेन नागदत्तेन प्रवहणागतस्यैकस्य शुकस्य पादे निजकष्टोदंतचिट्टिका बद्धा. ततः स शुकोऽपि चिट्टि कायुतः सुंदरनृपपार्श्व गतः तच्चिट्टिकावृत्तांतं वाचयित्वा दुःखितो राजा भोजनमपि न करोति ततस्तेन राज्ञा नागदत्तकष्टनिवारणार्थं निजनगरमध्ये पटहोद्घोषणा कारिता. तदा तत्र वास्तव्येनैकेन वृद्धनाविकेन स पटहः स्पृष्टः, निवेदितं च तेन राज्ञे, हे स्वामिन्नहमुपायेन समुद्रमध्ये गत्वा भुजंगवलय कुंभिकामध्यात्तं कष्टे पतितं पुरुषं निष्काशयिष्यामि हृष्टेन राज्ञा तस्मै नाविकाय लक्षसुवर्णे प्रदत्तं. अथ स वृद्धनाविकोऽपि प्रवहणस्थितस्तत्र भुजंगवलयपर्वतद्वारे प्राप्तः तत्र तेन तं प्रवहणस्थितं नागदत्तंप्रति कथितं, यदि भवतां मध्यात्कोऽपि साहसं कुर्यात्तदैतानि प्रवहणानि कुंभिकामध्याद्दहिर्निस्सरंति तदा स नागदत्तस्तं वृद्धनाविकंप्रति जगाद, कथंविधं साहसं विधेयं ? नाविकेनोक्तमस्य भुजंगवलयपर्वतस्योपरि इंद्रनीलमणिमयप्रासादे मणिमयं श्रीनेमिनाथजिनेश्वरस्य बिंबं वर्तते, तस्मिन् प्रासादे च महत्प्रमाणा
3][49
04-0
कर्णिका
॥ १६ ॥
Scanned by CamScanner