Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 23
________________ धर्मोपदेश ॥ २१ ॥ 10-10004-20 बुद्धिमेव विक्रयति तत् श्रुत्वा विस्मितेन तेन मदनेन पंचशतद्रम्मदानेन ततो धनिकादेका बुद्धिः क्रीता, यथा-यत्र द्वौ कलहायतस्तत्र न स्थेयं. एवंविधां बुद्धिं लात्वा स स्वहट्टे समागतः तदा स मित्रैरहस्यत. एवं तन्मित्रप्रहसनं विलोक्य जातशंकेन जनकेन तत्कारणं पृष्टं तदा तेन मदनकृत व्यापारकार्यादिकं | कथितं. तन्निशम्य रोषारुणः स श्रेष्ठी कुवचनैस्तं स्वपुत्रं तर्जयामास यथा-रे दुष्ट ! तस्य लुब्धस्य धूर्तस्य पाशे त्वं कथं पतितः ? त्वया सुधैव धनव्ययः कृतः तत्र गत्वा ततो वाक्य-बाणैर्विव्याध बुद्धिदं ॥ एवं| विधगिरा मुग्धान् । प्रतारयसि वंचक ॥ १ ॥ एवं स धनश्रेष्ठी तं बुद्धिदायकं धनिकं भृशं निर्भर्त्सयामास. ततस्तेन बुद्धिदेन धनिकेन शपथदानपूर्वकं तां बुद्धिं लात्वा तस्य धनं पश्चादर्पितं. अथैकदा तेन मदनेन | स्वमित्रगृहं गच्छता हो राजमान्यौ पुरुषो मुष्टामुष्टिपूर्वकं कलहायमानौ मार्गे दृष्टों, तद्विलोकन कौतुकी स | मदनोऽपि तल स्थितः ततस्तत्र संगतलोकैस्तौ द्वावपि पुरुषौ बलाद्राज्ञः पार्श्वे नीतौ तदा न्यायकरणार्थं राज्ञा प्रोक्तमेतत्कलहविषयेऽस्ति किं कोऽपि साक्षी ? लोकैरुक्तं धनश्रेष्ठीपुत्रो मदनः साक्षी वर्तते ततो राज्ञादिष्टाः सुभटास्तस्य मदनस्याकारणार्थं धनश्रेष्टिगृहे प्राप्ताः तान् दृष्ट्वा क्षुब्धः श्रेष्ठी तस्यैव बुद्धिदस्य 1-1-1 कर्णिका ॥ २१ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81