Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ 482000 सानंदाश्चर्येण हसितुं लग्नाः ततो राज्ञा स तैलिको वस्त्राभूषणादिभिः सत्कृत्य निजगृहे प्रेषितः ॥ इत्याडंबरे तैलिककथा समाप्ता ॥ ॥ अथ सत्पात्रदाने शातवाहननृपकथा प्रारभ्यते ॥ मीनानने प्रहसिते भयभीतमाह । श्रीशातवाहनमृषिर्भवतात्र नद्यां ॥ यत् सक्थुभिर्मुनिरकारि सुपारणं द्राक् । दैवाद्भवंतमुपलक्ष्य झषो जहास || १ || प्रतिष्ठानपुराभिधे नगरे शातवाहनाभिधो राजाभृत्. अथैकदा स राजा राजपाटिकायां वने परिभ्रमन्नेकस्या नद्यास्तटे समायातः, तत्र नद्यामेकं मत्स्यं हसंतं दृष्ट्वाऽरिष्टभीतो नगरमध्ये समागत्यैकं ज्ञानिनंप्रति तस्य मत्स्यस्य हास्यकारणं पप्रच्छ तदा स ज्ञानी मुनिः प्राह, भो राजन् ! पूर्व द्वावपि बांधवौ द्रव्यार्जनाय देशांतरंप्रति प्रस्थितौ क्रमेण चलंतौ तस्या नद्यास्तदे समायातौ तयोः पार्श्वे शंबलार्थ सक्थवोऽभूवन् इतः कोऽपि मासक्षपणतपस्त्री मुनिस्तत्र समायातः तदा तयोरेकेन भ्रात्रातीवभावपूर्वकं निजभागार्धसक्थवस्तस्मै मुनये निमंत्रणपूर्वकं समर्पिताः; अपरेण च 444 कणिका ॥ २७ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81