Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ १२ ॥
• E14014
|द्याधरं जित्वा स कन्याशतं परिणीतवान् इतश्च संग्रामसमये तस्य तत्र चक्ररत्नं समुत्पन्नं. एवं तस्यां वकुलमत्यां जल्पंत्यामेव स सनत्कुमारोऽपि गतनिद्रो जातः ततोऽसौ महता परिवारेण युतो वैताढये गतः | ततश्च मित्रप्रार्थनया स हस्तिनागपुरे समायातः तं दृष्ट्वा तस्य मातापितरावप्यत्यंतं प्रमुदितो. इतस्तत्र तस्य नवनिधानानि समुत्पन्नानि ततस्तेन भरतक्षेत्रस्य पट्खंडसाधनं कृतं.
अत्रांतरे सौधर्मेंद्रसभायामीशानदेवलोकात्संगमकाख्यो देवः समागतः तस्यातीवतेजसा च सभायामुद्योतोऽभूत् तदा देवैरिंद्रंप्रति पृष्टं, हे स्वामिन्नस्य देवस्य सदृशी प्रभा किं कस्यापि न विद्यते ? इंद्रेणोक्तं हस्तिनागपुरनगरे मनुष्यरूपस्य सनत्कुमारचक्रिणोऽस्मादेवादप्यधिका शरीरकांतिर्विद्यते तत् श्रुत्वा तत्परीक्षार्थी द्वौ देवी ततश्रलितो. जरद्विजरूपौ च तौ तस्य चक्रिणो गृहे समागतौ तदा चक्रिणा तयोः पृष्ट, युवां को? कुतश्चात्र समायातो? तावूचतुरावां द्विजौ भवदीयरूपविलोकनार्थमत्र समेतौ स्वः. चक्रिणोक्तमधुना तैलाभ्यंगिते मम देहे सुंदरं रूपं नास्ति, अतः सभायामागत्य मदीयालंकृतशरीरस्य रूपं | युवाभ्यां विलोकनीयं तत् श्रुत्वा तौ देवो ततो गतो. अथ स्नानानंतरं विभूषितशरीरे चत्रिणि सभायां
१+++
कर्णिका
॥ १२ ॥
Scanned by CamScanner

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81