Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश
BIPIDEMONOMURBedardi
स्थाल्यां क्षीरान्नेन पारणं कारयसि तदा करोमि, नान्यथा. तदा राज्ञा तथैव कारितं, श्रेष्ठिनः पृष्टतश्चोष्ण- कर्णिका क्षीरान्नदग्धा त्वगुत्तीर्णा, श्रेष्टिना चिंतितं नूनमिदं मे पूर्वकृतकर्मण एव फलं मया लब्धं. ततः स श्रेष्ठी a जिनपूजां विधाय तुंगगिरिशिखरे मासं यावत्कायोत्सर्ग च विधाय शुभाराधनया मृत्वा सौधर्मेंद्रो जातः.स त्रिदंड्यपि मृत्वा तस्यैवेंद्रस्य वाहनमैरावणहस्ती वसृव. ततश्च्युत्वा स त्रिदंडजीवस्तिर्यग्योनिषु भ्रांस्वाऽज्ञा* नतपसा असिताक्षयक्षो जज्ञे. ततः स इंद्रोऽपि च्युत्वा हस्तिनागपुरे सनत्कुमाराभिधश्चक्री बभूव. एतच्च । तयोर्वैरकारणं जानीहि? ततस्ताभ्यां यक्षकुमाराभ्यां महायुद्धं कृतं. लब्धलक्षेण कुमारेण स यक्षो मुष्टिना हतस्ततो नष्टः, देवयोनित्वाच्च न मृतः. तदा विद्याधरैश्च तस्य कुमारस्योपरि पुष्पवृष्टिः कृता. अथ सन सनत्कुमारो यावदने चलति, तावत्तेन भानुवेगाभिधविद्याधरस्याष्टौ कन्या दृष्टाः, ततस्तेन भानुवेगविद्याधरेण ताः सर्वा अपि कन्या सनत्कुमाराय परिणायिताः. अथ विवाहानंतरमावद्धकंकण एव स यावत् किंचिज्जागरुकः सुप्तस्तावत्कचित्करुणस्वरं श्रुत्वा सोऽग्रे चलितः, इतस्तेन रत्नशृंगगिरावेकं भवनं दृष्टं, तत्रैकं दुष्टं विद्याधरं निर्जित्य करुणस्वरं रुदंती तां सुनंदाख्यस्त्रीरत्नं परिणीतवान्. एवं तत्र तं वज्रवेगवि.
1194dIHARIDHHATTI

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81