Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ १० ॥
2004-05
Time
बकुलमती प्राह श्रूयतां ? पूर्वं श्रीकांचनपुराभिधे नगरे विक्रमयशो नाम नृपः, तस्य च पंचशतराइय आसन्. तत्रैव नगरे च नागदत्ताख्यः श्रेष्ठी वसतिस्म, तस्य विष्णुश्रीनामभार्या अतीव रूपवत्यासीत्. अथान्यदा राजपाटिकायां व्रजता तेन नृपेण सा श्रेष्ठीपत्नी दृष्टा, कामातुरो व्यामोहितश्च स तां गृहीत्वा स्वप राज्ञ कार. अथान्यदा मात्सर्याच्छेषराज्ञीभिः कार्मणप्रयोगेण सा विष्णुश्रीर्व्यापादिता, तेन स राजातीव दुःखितो बभूव मोहेन च स तस्याः शरीरस्याग्निसंस्कारं कर्तुं न ददाति तदा प्रधानैर्मिलित्वा प्रच्छन्नं सा विष्णुश्रीर्वहित्यक्ता ततः स राजा जलान्नं त्यक्त्वा स्थितः प्रधानैश्च तृतीयदिवसे तं नृपं दुःखितं | दृष्ट्वा तस्मै तस्याः शवं दर्शितं. दुर्गंधयुतं तत्कलेवरं वीक्ष्य स राजा वैराग्येण चारित्रं गृहीत्वा तृतीयदेवलोके गतः ततश्च्युत्वा स रत्नपुरे जिनधर्मनामा वणिग्बभूव इतश्च स नागदत्तः प्रियाविरहातों मृत्वा सिंहपुरेऽग्निशर्माभिधो द्विजो जातः कियता कालेन च स विप्रो त्रिदंडवतं जग्राह तपः कुर्वाणश्च सोऽन्यदा राजगृहपुरे गतः, तत्र स नरवाहननृपेण पारणाय निमंत्रितः इतः स जिनधर्माभिधो वणिक् तत्रागतस्तेन त्रिदंडिना दृष्टः पूर्ववैरं स्मृत्वा तेन त्रिदंडिना राज्ञोऽग्रे प्रोक्तं, हे राजन् ! ययस्य श्रेष्टनः पृष्टस्थितताम्र
EXE-EE
कर्णिका
॥ १० ॥
Scanned by CamScanner

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81