Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
|| 2 ||
चस उत्सवकोतुकानि विलोकयति, अत्रांतरे केनाप्यश्वपतिना तस्मै सनत्कुमाराय प्रधानोऽश्व उपढौकितः कुमारोऽपि तस्मिंस्तुरगेऽधिरूढः, परं तेन तुरगेण सोऽपहृत्य दूरे नीतः अथ तस्य गवेषणार्थं नृपः सपरिकरस्ततश्चलितः, स्थाने स्थाने विलोकितोऽपि स न दृष्टः ततस्तमश्वसेनं नृपं निवार्य तन्मित्रो महेंद्रसिहः स्वमित्र गवेषणार्थं स्वयमेव चचाल, वर्षं यावच्च स महाटव्यां वभ्राम, अथैकदा सारसध्वनिं श्रुत्वा, | मनोहरकमलगंधं चाघ्राय, मधुकरमधुरध्वनिं च शृण्वन् स यावदग्रे याति तावत्तेन सरोवरमेकं दृष्टं तत्र सरोवरासन्ने च कदलीगृहे स्त्रीवृंदैरनुगम्यमानं सनत्कुमारं क्रीडतं स ददर्श ततोऽसौ बंदिमुखादेकं स्तुतिश्लोकं पठ्यमानमशृणोत्, यथा- कुरुदेशेकमाणिक्य- मश्वसेननृपांगजः ॥ श्रीमान् सनत्कुमारस्त्वं । जय त्रैलोक्यविश्रुतः ॥ १ ॥ इति श्लोकश्रवणेन तेन महेंद्रसिंहेन विमृष्टं, नूनमयमेव सनत्कुमारो ज्ञायते, इति विमृश्य यावत्सोऽग्रे विलोकयति, तावत्तेन स एव सनत्कुमारो विलोकित उपलक्षितश्च ततो महेंद्रसिंहेन तस्मै प्रणामो विहितः परस्परं च तयोर्महान् हर्षः संजातः ततस्तेन सनत्कुमारेण स महेंद्रसिंहो भक्त्या भोजितः, ततस्तेन निजमित्राय पृष्टं मम मातापितरौ कथं वर्तेते ? मित्रेणोक्तं महता कष्टेन, प
{{EHGEEEE
कर्णिका
॥ ८ ॥
Scanned by CamScanner

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81