Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 194
________________ धर्मपरीक्षा ॥१८२॥ सटिप्पणा ॥खोपत्र वृत्तिः ॥ गाथा-५१ ॥१८२॥ ऽऽभोगपूर्वकजीवघातहेतुन्वेन यथाऽशुभत्वं तथा केवलिन आपवादिकस्य धर्मार्थमन्या धर्मोपकरणस धरणेऽपि त्वन्मतनीन्याऽऽभोगपूर्वकपरिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभत्वापत्तिः स्फूटवेति । अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदा स्वादयं दोपः, अपवादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिपिद्धप्रतिपेवणान्मकत्वेन स्वरूपतः सावद्यत्वात् । निवर्धत्वं चास्य पुष्टालम्बनप्रतिपेधितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्तिप्रतिपच्यादिना सोपाधिकमेव । यापि 'भगाए णाविओ णदो" [ 'गंगायां नाविको नन्दः' इत्यादि धर्मरुचिकथानके द्रष्टव्यम् । ] इत्यादिव्यतिकरोपलक्षितस्य धर्मरुचे रनगारस्य नाविकादिव्यापादनप्रवृत्तिः सापि परमार्थपर्यालोचनायां पुष्टालम्बनैव, तत्कृतोपसर्गस्य ज्ञानादिहानिहेतुत्वाद् , ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिपिद्धप्रवृत्तेः पुष्टालम्बनमूलत्वात् : केवलं शक्त्यभावभावाभ्यां पुष्टालम्बनतदितरापवादयोः प्रशस्ताप्र- शस्तसज्वलनकपायोदयकृतो विशेपो द्रष्टव्यःः ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवाापि । यच्च धर्मोपकरणधरणं तद्वयवहारनयप्रामाण्यार्थम् , व्यवहारनयस्यापि भगवतः प्रमाणीकर्तव्यत्वाद् । इत्थं च श्रुतोदितरूपेण धर्मोपकरणधरणे न केवलिलक्षणहानिः, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिपेवणाद्, अत एव-"ववहारो वि हु बलवं, जं वंदड़ केवली वि छउमत्यं ।। आहाकम्मं मुंजइ, मुअबवहारं पमाणतो" ।।२२९॥ (पुष्पमाला) नवृत्तिः-"न केवलं निश्चयोऽपि तु स्वविपये व्यवहारोऽपि बलवान् । यद्यस्मात्कारणात् समुत्पन्न केवलज्ञानोऽपि शिप्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दनादिविनयं कगेति, तथापि व्यवहाग्नयमनुवर्तमानः पूर्वविहितविनयो गुरुं वन्दते-आसनदानादिकं च विनयं तस्य तथैव करोति, याबदद्यापि | न ज्ञायते, ज्ञात पुनगुरुपि निवारयत्येवेति भावः । अपरं च---अतीवगृढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच्च श्रुतोक्त

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304