Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 263
________________ धर्मपरीक्षा ॥२५१॥ | पापभाजः । न चैतत्काल्पनिकम्, यन 'उच्चालिअंमि पाए' इत्यादिः भणितम् ||" यत एव भगवतोऽहिंसातिशयः, अत एव 'अणासवो केवलीणं ठाणं' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थानं केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् । तथा चतुःशरणप्रकीर्णकेऽपि 'सबजिआणमहिंसं, अरिहंता' - इत्यत्र सर्वे सूक्ष्मवादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामर्हन्त इति विवृतमिति चेत्, नन्वेवं योगजन्यजीव घाताभावरूपाया जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य तव मते सयोगिकेवलिनो योगाज्जीवघातो मा भूद्, अयोगिकेवलिवन्मशकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलि| योगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् । तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन ? | नाद्यः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः तेषामप्यात्माद्यनारम्भकत्वेन शुभयोगत्वात् । न द्वितीयः, केवलियोगत्वेन जीवघातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरप्रतिबन्धात्, सा च तवानिष्टेति । नापि तृतीयः क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच्च मोहक्षयस्यैव तथात्वकल्पनौचित्यात् । तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापरत्यभ्युपगमो दुर्घटः स्यादिति । न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारवारणाय क्षीणमोहयोगत्वेन जीव घातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षमं स्यादिति सर्वजीवा हिंसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सर्वथाऽभावाभिप्रायेण । अनाभोगस्तु न तज्जनको येन तदभावातदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम् । किंच - मशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् । नाद्यः, व्यसनितामात्रकृतकल्पनाया अनादे सटिप्पणा | खोप चिः ॥ गाथा - ६९ ॥२५१ ॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304