Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 285
________________ धर्मपरीक्षा ॥२७३॥ यद्वचनं तन्निरर्थकमेव । यत्तु तत्रानाभोगहेतुकं सम्भावनारूढं जीवविराधनावन्मृषाभाषणमुपपादितं तत्र दृष्टान्तासिद्धिः, द्रव्यतो जीबविराधनायास्तत्रोपपादितत्वाद् , भगवत्यामपि तत्र जीवविराधनायाः स्पष्टमुक्तत्वाच्च । तथा च तत्सूत्रं १८ श०८ उ० "अणगार |सटिप्पणा ॥ खोपड़ | स्स णं भंते ! भाविअप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोयए वा वट्टापोयए वा कुलिंगच्छाए वृतिः ॥ वा परियावजेजा, तस्स णं भंते ! किं इरियावहिया किरिया कजइ, संपराइआ किरिया कजइ ? गोयमा! अणगारस्स णं भाविअप्पणो गाथा-८३ | जाव तस्स णं इरियावहिआ किरिया कजइ, णो संपराइआ किरिया कजइ । से केणद्वेणं भंते ! एवं वुच्चइ ? जहा सत्तमसए संवुडुद्देसए|| ॥२७॥ जाव अट्ठो णिक्खित्तो'त्ति ॥ 'पुरओ'त्ति अग्रतः, 'दुहओ'त्ति द्विधा-अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः, 'जुगमायाए'त्ति यूप(युग)मात्रया दृष्टया, 'पेहाए'त्ति प्रेक्ष्य, 'रीयं ति गतं गमनं, 'रीयमाणस्स'त्ति कुर्वत इत्यर्थः, 'कुक्कुडपोयए'त्ति कुर्कुटादिपोतः, (टडिम्भः) वडापोयए'त्ति इह वर्तकः पक्षिविशेषः, 'कुलिंगच्छाए वत्ति पिपीलिकादिसदृशः, 'परियावजेजत्ति पर्यापद्येत-म्रियते। 'एवं जहा सत्तमसए'इत्यादि । अनेन च यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदंत ! एवमुच्यते ? गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्यर्यापथिक्येव क्रिया भवतीति"-इत्यादि तवृत्तावुक्तम् । अत्र भावितात्माऽनगार उपशान्तः क्षीणमोहश्च ग्राह्यः, अन्यस्येय पथिकीक्रियाऽभावात् , केवलिनचानाभोगप्रयुक्तोक्तविशिष्टगमनासम्भवादिति वदन्ति । तथा सम्भावनारूढं मृषाभाषण द्रव्यभावाभ्यां भिन्नं न कुत्राप्युपदर्शितमिति क्षीणमोहे तदभिधानं भवतोऽपूर्वपाण्डित्याभिव्यञ्जकमेव, द्रव्यभावातिरिक्तस्य सम्भावनारूढस्य शशविषाणवदवस्तुत्वात् । यच्च व्यक्तिशक्तिरूपं सम्भवे सम्भाव्ये च योगवीर्यमुक्तं तद्भावपरिणामरूपमेव, यथोक्तं सूत्रकृताङ्गवीर्याध्ययनवृत्ती। "तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304