Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२८॥
सटिप्पणा || खोपड़ वृत्तिः ॥ गाथा-९९
॥२८९॥
औपाधिकधर्मज्ञानमात्रं प्रति प्रतिबन्धकत्वादिति भावः । तदयं शुद्धात्मस्वभावानुभवनामा सन्मात्रार्थनिर्भासो धर्मशुक्लध्यानफलं विगलितवेद्यान्तरचिदानन्दनिष्यन्दभूतोऽविकल्पः समाधिरुपगीयते ॥ ९८ ॥ अस्यैवाविकल्पसमाधेरुपायभूतं शुद्धं विकल्पमुपदर्शयतिअपणे पुग्गलभावा, अण्णो एगो य नाणमित्तोहं॥ सुद्धो एस वियप्पो, अविअप्पसमाहिसंजणओ ॥९९॥
[अन्ये पुद्गलभावा अन्य एकश्च ज्ञानमात्रमहं ॥ शुद्ध एष विकल्पः अविकल्पसमाधिसंजनकः ॥ ९९॥] व्याख्या-'अण्णे'त्ति। पुद्गलभावाः पुद्गलपरिणामाः-कायमनोवागानप्राणकर्मवर्गणाधनगृहक्षेत्रारामादिसंस्थानभाजोऽविद्याप्रपञ्चोपरचितममकारविषयीभूताः, अन्ये-मदात्मद्रव्यादेकान्तेन पृथग्भूताः, कालत्रयेऽप्युपयोगलक्षणासंस्पर्शादिति भावः । अहं च ज्ञानमात्रमुपयोगमात्रस्वभाव इति हेतोः पुद्गलभावेभ्योऽभ्य एकश्च, कालत्रयेऽप्यन्यद्रव्यसंसर्गेऽपि तत्स्वभावापरिग्रहाद् अनन्तपर्यायाविर्भावतिरोभावाभ्यामप्यविचलितशुद्धात्मद्रव्यैकशक्तिमत्त्वाच्च । न च ज्ञानदर्शनचारित्ररूपरत्नत्रयस्वभावशालित्वेनापि शुद्धात्मद्रव्यस्यैकत्वक्षतिः सम्भवति प्रभानैर्मल्यदोषहरणशक्तिगुणयोगाजात्यरत्नस्येवेति । एष शुद्धात्मद्रव्यविषयत्वेन शुद्धो विकल्पः, अविकल्पसमाधेः सम्यक प्रकारेण जनकः, एतजनितसंस्कारस्य विकल्पान्तरसंस्कारविरोधित्वेन ततस्तदनुत्थानाद् , एतस्य च वढेर्दाह्य नाश्यानु विनाशवदशुभविकल्पजालमुच्छेद्य खत एवोपरमादिति ॥ ९९ ॥
तदेतदध्यात्मध्यानमविकल्पसमाधिसम्बन्धबन्धुरमित्येतदेवाभिष्टुवन्नाहएयं परमं नाणं, परमो धम्मो इमो च्चिय पसिद्धो॥ एयं परमरहस्स, णिच्छयसुद्धं जिणा बिति ॥१०॥
[ एतत्परमं ज्ञानं परमो धर्मोयमेव प्रसिद्धः । एतत्परमरहस्यं निश्चयशुद्धं जिना ब्रुवते ॥१०॥]
ACCORRENOUGUARA

Page Navigation
1 ... 299 300 301 302 303 304