Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा १. ॥२८८॥
व्याख्या- 'तंमि यत्ति । तस्मिंश्चाध्यात्म ध्यानैकाग्रत्वे समुल्लसिते, विषयाः शब्दादय इन्द्रियार्थाः कषायाः क्रोधमानमायालो भारतदादयो ये दोषमला जीवगुणमालिन्य हेतवस्तद्रहितं तथा विज्ञानानन्दघनं खरूपप्रतिभासप्रशमसुखैकरसतामापन्नं, परिशुद्ध मनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलमात्मस्वरूपम्, प्रत्यक्षं भवति ॥ ९६ ॥
ततश्वात्मन्येव रतस्य तत्रैव तृप्तस्य तत्रैव च सन्तुष्टस्य स्वात्ममात्रप्रतिबन्धविश्रान्ततया विकल्पोपरमः स्यादित्याह - जलहिम्मि असंखोभे, पत्रणाभावे जहा जलतरंगा ॥ परपरिणामाभावे, णेव विअप्पा तथा हुंति ॥ ९७॥ [ जलघावसंक्षोभे पवनाभावे यथा जलतरङ्गाः । परपरिणामाभावे नैव विकल्पास्तदा भवन्ति ।। ९७ ।। ] 'जल हिम्मि'त्ति | असंक्षोभे संक्षोभपरिणामरहिते, जलधौ समुद्रे, पवनाभावे यथा जलतरङ्गा नैव भवन्ति, तथा तदा आत्मस्वरूपप्रत्यक्षतादशायां, पर परिणामस्य पुद्गलग्रहणमोचन परिणामस्याभावे, नैव विकल्पाः शुभाशुभरूपाश्चित्तविप्लवा, भवन्ति ॥९७॥अध्यात्मध्यानजनितायामात्मस्वरूपप्रत्यक्षतादशायां संहृतसकलविकल्पावस्थायां सूक्ष्मविकल्पोपरमेणैव स्थूल विकल्पो परमदाढर्थमाह का अरती आणंदे, केवत्ति वियप्पणं ण जत्थुत्तं ॥ अपणे तत्थ वियष्पा, पुग्गलसंजोगजा कत्तो ॥ ९८॥ [ का अरतिः आनन्दः कोवेति विकल्पनं न यत्रोक्तम् ।। अन्ये तत्र विकल्पाः पुद्गलसंयोगजाः कुतः ।। ९८ ।। ] व्याख्या- ' का अरति'त्ति । का. अरतिः १ को वा आनन्दः १ इति विकल्पनमपि न, यत्र - आत्मस्वरूपप्रत्यक्षतायाम्, उक्तम्, अध्यात्मशास्त्रे स्वरूपानुभवमग्नतया सन्निहितसुखदुःखविकल्पस्य सूक्ष्मस्याप्यनवकाशात्, तत्रान्ये विकल्पाः स्थूलाः पुद्गलसंयोगजा गृहधनस्त्रजनभोजनादिपुद्गलसंसर्गजनिताः, कुतो भवन्ति ? अपि तु न कुतश्चित् ; स्वाभाविकधर्मज्ञानसामग्र्या
सटिप्पणा ॥ स्वोपज्ञ
चिः ॥
गाथा - ९७ ९८
॥२८८॥

Page Navigation
1 ... 298 299 300 301 302 303 304