Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा * ॥ २८६ ॥
देवाऽजरामरक्षा हेतुत्वात् । तथा गुणतश्च स्वगुणमाहात्म्येन च, ३ मङ्गलार्थं मङ्गलप्रयोजनदुरितोपशममित्यर्थः करोति विधत्ते ॥ ४ facts प्रकृत्यैव भवत्यसौ, योग्य इति कृत्वा ।। ९९ ।। तथामग्गणुसार पाहिण५, गंभीरो गरुअओ तहा होइ६ ॥ कोहग्गिणा अडज्झो७, अकुच्छो सइ सीलभावेणं८॥
[ मार्गानुसारित्वं प्रदक्षिणत्वं गंभीरः गुरुककस्तथा भवति ।। क्रोधाग्निनाऽदाह्यः अकुत्स्यः सदा शीलभावेन ॥ ९२ ॥ ] व्याख्या - मग्गणुमारि'ति । ५ मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणावर्त्तत्वमुच्यते ।। ६ गम्भीरोऽतुच्छचेताः गुरुकको गुरुक इत्यर्थः ।। ' तथा ' इति समुच्चये, भवति स्यात् । तथा ७ क्रोधाग्निना अदाह्यः, सुवर्णवत् ॥ ८तथाsकुत्स्यः सदा शीलभावेन शीललक्षण सौगन्ध्यसद्भावेनेति ।। ९२ ।। निगमयन्नाह -
एवं सुन्न सरिसो, पडिपुन्नाहिअगुणो गुरू ओ ॥ इयरो वि समुचियगुणो, ण उ मूलगुणेहि परिहीणो ॥९३॥
[ एवं सुवर्णसदृशः प्रतिपूर्णाधिकगुणो गुरुर्ज्ञेयः ॥ इतरोपि समुचितगुणो न तु मूलगुणैः परिहीनः ॥ ९३ ॥ ]
' एवं 'ति एवमुक्तप्रकारेण सुवर्णमदृशः, सामान्यतो भावसाधुगुणयोगात् । तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपा - दिविशेषगुणा यस्य स तथा, गुरुर्ज्ञेयः । अपवादाभिप्रायेणाह - इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादाहीनगुणो गुरुर्ज्ञेयः नतु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् । उक्तं च (पंचाशक ११ मुं) गुरुगुणरहिओ वि इहं, दव्वो मूलगुणवितो जो "त्ति । मूलगुणसाहित्ये तु सम्मुचितगुणलाभाद् न किञ्चिद्गुणवैकल्येनाऽगुरुत्वमुद्भावनीयमिति भावः ॥ उक्तं च- "ण उ गुणमित्तविहूणोत्ति, चंडरुद्दो उदाहरणं ।। ३५ ।। " ति ॥ ९३ ॥
सटिप्पणा
॥ स्वोपज्ञ
वृषः ॥
गाथा - ९२ ९३
॥२८६॥

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304