Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा !!२७४॥
:
च । सम्भवे तावत्तीर्थ कृनामनुत्तरोपपातिकानां च सुराणामतीवपटूनि मनोद्रव्याणि भवन्ति । तथाहि तीर्थकृतामनुत्तरोपपातिकसुरमनः पर्याय ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणाद्, अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति । सम्भाव्ये तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुं, सम्भाव्यते त्वेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमिति । वाग्वीर्यमपि द्विविधं-सम्भवे सम्भाव्ये च । तत्र सम्भवे तीर्थकृतां योजननिहारिणी वाक् सर्वस्वस्वभाषानुगता च तथाऽन्येषामपि क्षीरमध्वाश्रवादिलब्धिमतां वाचः सौभाग्यमिति । तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रियो गानमाधुर्यम् । तथा चोक्तम् - "इया (सा)मा गायति मधुरं, काली गायति खरं च ऋक्षं (रुक्खं ) च' इत्यादि । तथा सम्भावयाम एनं श्रावकदारकम कृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः - शुकसारिकादीनां वाचो मानुषभाषापरिणामः । का वीर्यमप्यरस्यं यद्यस्य बलम् । तदपि द्विविधं सम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्त्तिबलदेव वासुदेवादीनां यद्वाहुबलादिकायबलम् । तद्यथा - कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदि वा 'सोलसराय सहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति । सम्भाव्येतु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम्, तथा मेरुं दण्डवत् गृहीत्वा वसुधां छत्रकवद्भर्तुमिति । तथा सम्भाव्यतेऽन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव मन्दरमिति । तथा सम्भाव्यतेऽयं दारकः परिवर्द्धमानः शिलामेनामुद्ध हस्तिनं दमयितुमश्रं वाहयितुमित्यादि [ इन्द्रियबलमपि श्रोत्रेन्द्रियादिस्वविषयग्रहणसमर्थ पञ्चधा । एकैकमपि द्विधा सम्भवे सम्भाव्ये च । सम्भवे यथा श्रोत्रेन्द्रियस्य द्वादशयोजनानि विषयः एवं शेषाणामपि यस्य यो विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विष
T
ASOCHIS
सटिप्पणा
॥ स्वोपज्ञ
वृचिः ॥
गाथा-८३ ॥२७४॥

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304