Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 284
________________ धर्मपरीक्षा ।।२७२ ॥ सिद्धिर्न वा व्यभिचार इति विभावनीयम् । यत्तु भावभूतलिङ्गानां न छद्मस्थज्ञानोपयोगित्वमिति । तदसद् भावभूतानामेव शमादिलिङ्गानां | छद्मस्थानां परनिष्ठसम्यक्त्वज्ञानजनकत्वप्रतिपादनात् । तदुक्तं योगशास्त्र प्र०२ श्लो० १५वृत्तौ “पञ्चभिर्लक्षणे लिंङ्गैः परस्थं परोक्षमपि सम्पतवं सम्यगुपलक्ष्यते, लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणीत्यादि । बाह्यपरिणतिविशेषादेव तत्र शमादिभावलिङ्गज्ञानसौलभ्यमिति चेद्, अत्रापि तत एव न भावलिङ्गज्ञानदौर्लभ्यं परीक्षकाणाम् । एतेन छद्मस्थत्वगमकानि लिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति । यच्च 'क्षीणमोहस्य मृषाभाषणं तच्छद्मस्थज्ञानागोचरत्वेन न लिङ्गम्, द्रव्यतो मृषाभाषणस्य क्रोधाद्यभावेन क्षीणमोहेऽभावादित्यादि यदुक्तं तन्निरस्तम्, उक्तरीत्या द्रव्यव्यतिरिक्तस्यापि मृषावादस्य सुपरीक्षकाणां सुग्रहत्वात् । किञ्च क्षीणमोहस्य द्रव्यतो मृषाभाषणं नास्तीति सर्वशास्त्रविरुद्धम्, यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इप्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य चतुर्णामपि मनोयोगादीनामभिधानादिति पञ्चाशक वृत्तौ द्रव्यत एव मृषावादस्य क्षीणमोहेऽभिधानात् । अत एव सूक्ष्मप्रमादनिमित्तविराधनयाऽऽलोचनाप्रायश्चित्तं तत्रोक्तम् । तथाहि आलोअणा विवोगो वा, णियंठस्स दुवे भवे || विवेगो अ सिणायस्स, एमेया पडिवत्तिओ || १||"त्ति यतिजीत कल्पसूत्रे प्रोक्तम् । “आलोचनाप्रायश्चित्तं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः, स्नातकस्य केवल एको विवेकः ।" इति तद्वृत्तौ । अत्र स्नातकस्य केवलविवेकप्रायश्चित्तभणनेन निर्ग्रन्थयोरुपशान्तक्षीणमोहयोरालोचनाविवेकप्रायश्चित्ते द्वे अविशेषेणैवोक्ते सम्भाव्येते; अन्यथा निर्ग्रन्थे विकल्पद्वयमकरिष्यद्; यथा - कुत्रचिन्निर्ग्रन्थे विवेकप्रायश्चित्तमेव, कुत्रचिच्चालोचनाविवेकरूपे द्वे इति; न चैवं क्वचिदुपदर्शितमिति माध्यस्थ्येन पर्यालोच्यम् । तथा चालोचनाप्रायश्चित्तशोध्या द्रव्यविराधना केवलिविलक्षणे क्षीणमोहे शास्त्रसिद्धेति द्रव्यतो मृषाभाषणं क्षीणमोहे न भवतीति सटिप्पणा ॥ स्वोपज्ञ हुचिः ॥ गाथा-८३ ॥२७२ ॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304