Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२७॥
सटिप्पणा ||स्वोपन
गाथा-८३ | ॥२७॥
स्याद् , व्यामूढमनसामिह । ४॥ इति न्यायावतारवचनात् । यथाहि-सानादिमत्वाद् गवि गोत्वे सिद्धेऽपि व्यामृढस्य तत्प्रतिपत्त्यर्थ का प्रयोगः क्रियते-यथा इयं गौः, सास्नादिमच्चात् , यत्र गोत्वाभावस्तत्र सास्नादिमचाभावो यथा महिष इत्यादि । एवमत्रापि पुरुषविशेषे |
प्रमत्तत्वाच्छस्थत्वे सिद्धेऽपि व्यामूढस्य ज्ञापनार्थमनुमाने कर्तव्ये छद्मस्थत्वस्य साध्यत्वं घटत एवेति । एतेन निद्राविकथादिप्रमादवतश्छद्मस्र्थत्वेन संशयानुपपत्तेर्न तत्परिज्ञानाय लिङ्गापेक्षेत्यपि निरस्तम्, उक्तयुक्त्या व्यामोहनिरासार्थ तदुपपत्तः, विप्रतिपत्त्यादिना केवलिछमस्थविशेषज्ञस्यापि संशये सति तत्साधनोपपत्तेश्च । न च सूत्रे प्राणातिपातकत्वादीनां सामान्येन छद्मस्थलिङ्गत्वेन प्रोक्तत्वात् प्रमत्तछद्मस्थरूपविशेषे व्याख्यायमाने सूत्राशातनेति वाच्यम् , सूत्रस्य सूत्रान्तरसम्मत्या व्याख्यानकरणे आशातनायाः परित्यागात् । किञ्च-भवतोऽप्यप्रमत्तरूपछद्मस्थविशेषमुपादायैव व्याख्यानकरणान्नैतद्विपये पर्यनुयोग एव युज्यते । “यत्रोभयोः समो दोषः, परिहारोऽपि वा समः॥ नैकः पर्यनुयोक्तव्य-स्तागर्थविचारणे ॥१॥" इति वचनात् । ननु प्रमत्तस्य पक्षत्वेऽप्रमत्तसंयते कथं छद्मस्थत्वं स्याद् ?, लिङ्गाभावाद्-इति चेद्, न । लिङ्गिनि लिङ्गावश्यम्भावनियमाभावाद्, धूमं विनापि तप्तायोगोलके वह्निदर्शनात् । ननु यद्येवं प्रमत्तस्य पक्षत्वं भावतः प्राणातिपातकत्वादीनां च लिङ्गत्वं तदा छद्मस्थत्वगमकलिङ्गेषु 'कदाचिद्'-इति विशेषणं यत् टीकाकारेण दत्तं तदनुपपन्नं स्याद् , अप्रमत्तसंयतपक्षे द्रव्यप्राणातिपातादीनां लिङ्गत्वे हि तेषां सार्वदिकत्वाभावेन स्वरूपासिद्धिवारणार्थ तदुपपन्नं स्यात् । प्रमत्तसंयतपक्षे भावप्राणातिपातस्य सार्वदिकत्वेन तद्विशेषणस्यानुपपत्तिरेवेति । मैवम् , अविशेषणोक्तस्य प्राणातिपातकत्वादेः स्वरूपाऽसिद्धत्वाभावेन 'कदाचिद्'-इत्यस्योभयमतेऽपि स्वरूपविशेषणत्वात कालिकसम्बन्धेन व्याप्तेरभिप्रेतत्वेऽपि 'कदाचित्' इत्यस्य कालान्तरोपसङ्ग्रहेऽनुपयोगाद्, यदा प्राणातिपातकत्वादिकं तदा छद्मस्थत्वमिति नियमसिद्धौ ‘कदाचिद्' इत्यनेन किमुपकर्तव्यमेतादृश
OCEROSAGE

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304