Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
सटिप्पणा ॥स्वोपन वृत्तिः ॥ माथा-८३ ॥२७६॥
माणं कतिवण्णे कतिगंधे कतिरसें कतिफासे पण्णत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पण्णत्ते ॥" इत्यादि भगवतीसूत्रे धर्मपरीक्षा
द्वादशशते पश्चमोद्देशके प्रोक्तम् । 'रायगिहे'इत्यादि । 'पाणाइवाए'त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं को॥२७६॥
पचाराद प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयो भवन्ति, अत उक्तं 'पंचवण्णे इत्यादि । आह च-"पंचरस-पंचवण्णेहि, परिणयं दुविहगंधचउफासं । दवियमणंतपएस, सिद्धेहिं णंतगुणहीणं ॥१॥" इत्यायनवृत्तावुक्तम् । एतदनुसारेण च प्राणातिपातादीनां चारित्रमोहनीयत्वात् क्षीणमोहे तदनुपपत्तेः। उपशान्तमोहे तु मोहसद्भावात्प्राणातिपाताद्यङ्गीकारे न किञ्चिद्वाधकमिति चेद् । एतदप्यसत् , भावप्राणातिपातापेक्षयैवोक्तोपचारव्यवस्थितेः, अन्यथा द्रव्यप्राणातिपातादीनां चारित्रमोहनीयकर्मजनकत्वे | सूक्ष्मसम्परायादौ पड्विधबन्धकत्वादि न स्यात् । तजन्यत्वे च तस्योदितस्यानुदितस्य वा जनकत्वं वाच्यम् । आधे उपशान्तमोहे द्रव्यप्राणातिपाताद्यनुपपत्तिः। अन्त्ये च चारित्रमोहनीयसत्तामात्रादुपशान्तमोहे तत्कार्यप्राणातिपातस्वीकारे नाग्न्यादीनां सप्तानां परीषहाणामपि तत्र स्वीकारापत्तेः, तेषामपि चारित्रमोहनीयकार्यत्वप्रतिपादनात् । तदुक्तं भगवत्यां श०८ उ०८"चरित्तमोहणिजे णं भंते! कम्मे कति परीसहा समोअरंति ?, गोयमा सत्त परीसहा समोअरंति । तंजहा-"अरती अचेल इत्थी, णिसीहिआ जायणा य अक्कोसा ॥ सक्कारपुरकारे, चरित्तमोहमि सत्तेते ॥१॥" तत्त्वार्थभाष्येऽप्युक्तम् अ०९ सू०१५ "चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ परीषहा उक्ताः।" इति । एतवृत्तिर्यथा-"दर्शनमोहवर्ज शेषं चारित्रमोहनीयं-चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात्पराङ्मुखत्वाचारित्रमोहनीयम् , तदुक्ये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति । नाग्न्यं जुगुप्सोदयाद्१, अरत्युदयादरतिः२, स्त्रीवेदोदयात स्त्रीपरिषहः३, निषद्या स्थानासेवित्वं भयोदयात्४, क्रोधोदयादाक्रोशपरीषहः५, मानोदयाद् याश्चापरीषहः६, लोभोदया
CREASRECCHOCHOCOINEK
*

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304