Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 290
________________ धर्मपरीक्षा ॥२७८॥ सटिप्पणा ॥स्वोपज्ञ वृतिः ॥ गाथा-८३ ॥२७८॥ SOURCHAS कारादिलिङ्गगम्यत्वस्यापि सैम्भवान्मिथ्याकारस्य वाऽनवरतप्रवृत्तावसम्भवात संयतानां द्रव्यहिंसादिकं कादाचित्कत्वेनानाभोगप्रयुक्तमेवेत्यभिधानं तदयुक्तम् , प्रत्याख्यातभावहिंसादेरेवानाभोगप्रयुक्तकादाचित्कभङ्गपरिणतिवतो मिथ्याकारविषयत्वाद् , द्रव्यहिंसामात्रे तदभाषाद् , अन्यथाऽपवादपदजिनपूजाऽऽहारविहारादिक्रियाणामपि मिथ्याकारविषयत्वापत्तेः। यच्च षष्ठसप्तमलिङ्गयोश्छद्मस्थमात्रे सुलभत्वमुक्तम् , तत्प्रतिलेखनाप्रमार्जनादिक्रियाणां पिपीलिकादिक्षुद्रजन्तुभयोत्पादकत्वेन सावद्यत्वे स्यात् , तदेव तु नास्ति, कायादिनियताचाररूपाणां तासामौत्सर्गिकीणां क्रियाणामत्यन्तनिरवद्यत्वाद् । अपवादकल्पत्वादासां कथञ्चित्सावद्यत्वमिति चेद्, न । अपवादस्यापि विधिशुद्धस्य सावद्यत्वाभावे तत्कल्पत्वेनाभिमते तदभावाद् । न चोत्सर्गापवादव्यतिरिक्तोऽपवादकल्पो राशित्रयकल्पनारसिकं भवन्तं विनाऽन्येन केनापीष्यत इति तत्सद्भावे प्रमाणमस्ति । शक्याशक्यपरिहारविषयभेदेनापवादापवादकल्पयोर्भेदाभ्युपगमे च दुष्करसुकरत्वादिभेदेनानशनयुक्ताहारादिक्रियाणामुत्सर्गोत्सर्गकल्पभेदकल्पनाया अप्यापत्तेरिति न किश्चिदेतत् । तस्मात् षष्ठसप्तमलिंगयोः सौलभ्यमपि प्रमत्तस्यैव प्रतिषेवणदशायां ज्ञेयम् , अप्रमत्तस्य तु सत्तामात्रेणैव तद् द्रष्टव्यम् । यत्तु केवलिनोऽपि परीक्षायां छद्मस्थज्ञानगोचरत्वेन द्रव्यरूपाण्येव लिङ्गानि ग्राह्याणीत्युक्तम् , तन्न चतुरचेतश्चमत्कारकारि, द्रव्यरूपाणामपि प्राणातिपातादीनामभावस्य सर्वकालीनत्वस्य हेतुघटकस्य दुग्रहत्वात् । सूक्ष्मदृष्टया तद्ग्रहे च भावरूपलिङ्गानामपि न दुहत्वमिति । यच्चोक्तं स च केवली द्विविधो ग्राह्य इत्यादि, तदसत् । क्षीणमोहे केवलित्वस्यागमबाधितत्वात् , आगमे छद्मस्थवीतरागमध्य एव क्षीणमोहस्य परिगणितत्वात् । उक्तं च प्रज्ञापनायां 8"से किंतं खीणकसायवीयरायचरित्तायरिथा?,खीणकसायवीयरागचरित्तायरिआ दुविहा पन्नत्ता । जहा छउमत्थखीणकसायवीयरायच रित्तायरिया य, केवली खीणकसायवीयरागचरित्तायरिया य" इत्यादि। यदि चैतामागमबाधामुल्लङ्घयापि 'भाविनि भूतवदुपचारः' इति CSCRIKA

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304